158

गौडीया यथा—

‘यस्यावस्कन्दलीलावलितबलपरिस्पन्दखर्वीकृतोर्वीसंरम्भोत्तम्भनायोन्नमितभरनमत्कन्धरासंधिरासीत् ।
शेषो विस्फारफुल्लस्फुटपृथुलफणाफूत्कृताग्निस्फुलिङ्गस्फूर्जत्संदोहसंदेहितविकटशिखामण्डलीरत्नखण्डः ॥ २७ ॥’

सेयमोजःकान्तिमती समस्तोद्भटभूरिपदा च गौडीया रीतिः ॥

यस्येति । अवस्कन्दो ध्राटकः । समस्तोद्भटभूरिपदेति । उद्भटता प्रौढिप्रकर्षः ॥

आवन्तिका यथा—

‘एतानि निःसहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति पदानि तस्याः ।
एते च 114मार्गतरवः प्रथयन्ति ताप115- मालम्बितोज्झितपरिग्लपितैः प्रवालैः ॥ २८ ॥’

सेयं समस्तद्वित्रिचतुरपदा वैदर्भीपाञ्चाल्योरन्तरालवर्तिन्यावन्तिका नाम रीतिः ॥

एतानीति । ‘निःसहतनोरसमञ्जसानि’ ‘मार्गतरवः’ इति द्वे द्वे पदे, ‘आलम्बित-’ इत्यादौ त्रीणि पदानि समस्तानि । माधुर्यसौकुमार्ययोर्मनागुन्मेषः पाञ्चालीभागः । इतरेषां समकक्षता वैदर्भीभागः । अनयोः संभेदेनान्तरालकल्पना व्यक्तैव ॥

लाटीया यथा—

‘अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन्कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥ २९ ॥’
  1. ‘वर्त्मतरवः’ ख ‘तीरतरवः’ क
  2. ‘मालिङ्गितो’ ख