165 विताध्यवसायाभिप्रायः प्रवासविप्रलम्भाविष्टचेतसः प्रकाशितो भवतीति । उपलक्षणं चैतत् । वर्षाकाले चतुरो मासानित्यपि लोकोक्तिरेव ॥

छेकोक्तिच्छाया यथा—

‘यो हि दीर्घासिताक्षस्य विलासललितभ्रुणः ।
कान्तामुखस्यावशगस्तस्मै नृपशवे नमः ॥ ३८ ॥’

सेयं तस्मै नृपशवे नम इति विदग्धोक्तेरनुकृतिश्छेकोक्तिच्छाया ॥

यो हीति । कान्तामुखमेव जीवितसर्वस्वमभिमन्यमानस्तत्रालंप्रत्ययशालिनः पशूनिव प्रति शृङ्गारी विदग्धः ॥

अर्भकोक्तिच्छाया यथा—

‘किं स स्वर्गतरुः कोऽपि यस्य पुष्पं निशाकरः ।
ते वृक्षाः कीदृशा मातर्येषां मुक्ताफलं फलम् ॥ ३९ ॥’

सेयमव्युत्पन्नशिशुजनोक्तेरनुकृतिरर्भकोक्तिच्छाया ॥

किं स इति । नूनं त्रिजगद्वर्तिसकलार्थिसार्थकीकरणविख्यातकीर्तेः पारिजातप्रमुखस्य कस्यचिदेकः स्तबकः सुधाभिराह्लादयन्नयमवलोके दृश्यत इत्यादि ॥

उन्मत्तोक्तिच्छाया यथा—

‘दृष्टः कथं सुतनु किं कुरुते किमस्मद्वार्तां स पृच्छति श्रृणोति निवेद्यमानाम् ।
120आस्तां किमस्य कथया कथयाशु तावदत्रागमिष्यति न वा खलु सोऽभिमानी ॥ ४० ॥’

सेयमसमञ्जसाया उन्मत्तोक्तेरनुकृतिरुन्मत्तोक्तिच्छाया ॥

दृष्ट इति । कथमित्यादिना तदेकतानतामाविष्कृत्य सहसैवास्तामित्यादिना संप्रहाणम्, कथय तावदित्यादिना च पुनरादानमसमञ्जसम् ॥

पोटोक्तिच्छाया यथा—

‘तिलकमसहास्मि सोढुं घनसारेणाति121सारदोषो मे ।
लम्भयति च दौर्बल्यं कुङ्कुमरागो ममाङ्गानि ॥ ४१ ॥’
  1. ‘आसां’ ख
  2. ‘सारो’ ख