तन्नागेति । नागेन्द्रकरवदूरुः पार्वतीभागे, दोर्बाहुश्च देवभागे, करिकुम्भवत्पीनः स्तनो देवीभागे, अंसः स्कन्धश्च देवभागे एवंविधत्वत्पितुरीश्वरस्य वपुस्त्वन्मुखे । एकविषाणतया करिकरिणीसमाहारात्मनि वीक्षामह इति वाराह्याः परिहासोक्तिः । वाराही वराहप्रकृतिभूतो मातृविशेषः । इभवदनो विनायकः । स्त्रीत्वपुंस्त्वयोः परस्परपरिहारेणोपलम्भाद्विरुद्धयोरपि त्वत्पितुरित्यनेन स्तुतिनिन्दयोः प्रतिषेधेन रम्यताभीषणतयोर्भागव्यवस्थया मुखवपुषोः सादृश्येनाभितोऽभिप्रायप्रतिबिम्बितेन योजना विहितेति तत्प्रतिपादकानां पदानामेकवाक्यतासिद्धिः । तदिदमाह—अत्रेति ॥