524
पिप्पलीलवणोपेतौ बस्ताण्डौ क्षीरसर्पिषा ॥
साधितौ भक्षयेद्यस्तु स गच्छेत्प्रमदाशतम् ॥ ५ ॥
बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् ॥
यः खादेत्स नरो गच्छेत्स्त्रीणां शतमपूर्ववत् ॥ ६ ॥
चूर्णं विदार्याः सुकृतं स्वरसेनैव भावितम् ॥
सर्पिःक्षौद्रयुतं लीढ्वा दश गच्छेन्नरोऽङ्गनाः ॥ ७ ॥
एवमामलकं चूर्णं स्वरसेनैव भावितम् ॥ ८ ॥
शर्करामधुसर्पिर्भिर्युक्तं लीढ्वा पयः पिबेत् ॥
एतेनाशीतिवर्षोऽपि युवेव परिहृष्यति ॥ ९ ॥