525
विदारिकन्दचूर्णं तु शृतेन पयसा नरः ॥
उदुम्बरसमं खादन्वृद्धोऽपि तरुणायते ॥ १० ॥
स्वयंगुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम् ॥
धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत् ॥ ११ ॥
उच्चटाचूर्णमप्येवं क्षीरेणोत्तममुच्यते ॥
शतावर्युच्चटाचूर्णं पेयमेवं सुखाम्बुना ॥ १२ ॥
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम् ॥
पयोनुपानं यो लिह्यान्नित्यवेगः स ना भवेत् ॥ १३ ॥
गोक्षुरकः क्षुरकः शतमूली वानरी(रि) नागबलाऽतिबला च ॥
चूर्णमिदं पयसा निशि पेयं यस्य गृहे प्रमदाशतमस्ति ॥ १४ ॥
त्रिकण्टविदारीनिस्तुषतिलबहुपुत्रीरजश्चतुष्प्रस्थम् ॥
भल्लातकप्रस्थयुगं तत्सप्तोनं गुडूच्याश्च ॥ १५ ॥