177
लाजोदकं मधुयुतं घृतं गुडविमिश्रितम् ॥
काश्मर्यशर्करायुक्तं पिबेत्तृष्णार्दितो नरः ॥ ९ ॥
आम्रजम्बूकषायं वा पिबेन्माक्षिकसंयुतम् ॥
छर्दिं सर्वां प्रणुदति तृष्णां चैवापकर्षति ॥ १० ॥
गोस्तनेक्षुरसक्षीरयष्टीमधुमधूत्पलैः ॥
नियतं नस्ततः (नासया) पीतैस्तृष्णा शाम्यति दारुणा ॥ ११ ॥
क्षीरेक्षुरसमार्द्वीकक्षौद्रसीधुगुडोदकैः ॥
वृक्षाम्लाम्लैश्च गण्डूषास्तालुशोषप्रणाशनाः ॥ १२ ॥
वैशद्यं जनयत्यास्ये प्ररोहयति यद्व्रणान् ॥
दाहतृष्णाप्रशमनं मधुगण्डूषधारणम् ॥ १३ ॥
वारि शीतं मधुयुतमाकण्ठाच्च पिपासितम् ॥
पाययेद्वामयेच्चापि तेन तृष्णा प्रशाम्यति ॥ १४ ॥
अतिरूक्षदुर्बलानां शमयेत्तृष्णामिहाऽऽशु पयः ॥
छागो वा घृतभृष्टः शीतो मधुरो रसो हृद्यः ॥ १५ ॥
स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत् ॥ १६ ॥