68
लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः ॥
समुदीर्णं दोषनिचयं शमयति तत्पाचयत्यपि च ॥ १ ॥
धान्योदीच्यशृतं तोयं तृष्णादाहातिसारिणे ॥
ह्रीवेरशृङ्गवेराभ्यां मुस्तपर्पटकेन वा ॥
मुस्तोदीच्यशृतं तोयं देयं चातिपिपासवे ॥ २ ॥
नागरातिविषामुस्तैः शृतं वा धान्यनागरैः ॥
तृष्णाशूलातिसारघ्नं रोचनं दीपनं परम् ॥ ३ ॥
ह्रीवेरशृङ्गवेराभ्यां मुस्तपर्पटकेन वा ॥
आभ्यामेव सपाठाभ्यां सिद्धमाहारमाचरेत् ॥ ४ ॥
शालिपर्ण्यादिकाद्यैस्तु साधितेन ससिन्धुजम् ॥
मसूरजेन यूषेण पथ्यं स्याल्लाजसक्तुभिः ॥ ५ ॥