Adhikāra 55

पटोलामृतभूनिम्बवासकारिष्टपर्पटैः ॥
खदिराब्दयुतैः क्वाथो विस्फोटार्तिज्वरापहः ॥ १ ॥
396
पटोलत्रिफलारिष्टगुडूचीमुस्तचन्दनैः ॥
समूर्वा रोहिणी पाठा रजनी सदुरालभा ॥ २ ॥
कषायं पाययेदेतच्छ्लेष्मपित्तज्वरापहम् ॥
कण्डूत्वग्दोषविस्फोटविषवीसर्पनाशनम् ॥ ३ ॥
भूनिम्बवासाकटुकापटोलफलत्रिकाचन्दननिम्बसिद्धः ॥
विसर्पदाहज्वरवक्त्रशोषविस्फोटतृष्णावमिनुत्कषायः ॥ ४ ॥
सकफे पित्तयुक्ते तु त्रिफलां योजयेत्पुरैः ॥
दुरालभां पर्पटकं पटोलं कटुकां तथा ॥
सोष्णं गुग्गुलुसंमिश्रं पिबेद्वा खदिराष्टकम् ॥ ५ ॥
कुण्डलीपिचुमन्दाम्बु खदिरेन्द्रयवाम्बु वा ॥
विस्फोटान्नाशयत्याशु वायुर्जलधरानिव ॥ ६ ॥
चन्दनं नागपुष्पं च तण्डुलीयकसारिवा ॥
शिरीषवल्कलं जाती लेपः स्याद्दाहनाशनः ॥ ७ ॥
शुकतरुनतमांसीरजनीपद्मं च तुल्यानि ॥
पिष्टानि शीततोयेन स्याल्लेपः सर्वविस्फोटे ॥ ८ ॥
शिरीषमूलमञ्जिष्ठाचव्यामलकयष्टिकाः ॥
सजातीपल्लवक्षौद्रा विस्फोटे कवलग्रहाः ॥ ९ ॥
397
शिरीषोदुम्बरौ जम्बूः सेकालेपनयोर्हिताः ॥
श्लेष्मातकत्वचो वाऽपि प्रलेपाश्चोतने हिताः ॥ १० ॥
शिरीषयष्टीनतचन्दनैलामांसीहरिद्राद्वयकुष्ठवालैः ॥
लेपो दशाङ्गः सघृतः प्रदिष्टो विसर्पकुष्ठग्रहशोषहारी ॥ ११ ॥
शिरीषोशीरनागाङ्कहिंस्राभर्लेपनाद्द्रुतम् ॥
विसर्पविषविस्फोटाः प्रशाम्यन्ति न संशयः ॥ १२ ॥
वृषखदिरपटोलपत्रनिम्बत्वगमृतामलकीकषायकल्कैः ॥
घृतमभिनवमेतदाशु पक्वं जयति विसर्पमदास्रकुष्ठगुल्मान् ॥ १३ ॥
पटोलसप्तच्छदनिम्बवासाफलत्रिकच्छिन्नरुहाविपक्वम् ॥
तत्पञ्चतिक्तं घृतमाशु हन्ति त्रिदोषविस्फोटविसर्पकण्डूः ॥ १४ ॥
शाखासु कुपितो दोषः शोथं कृत्वा विसर्पवत् ॥
भित्त्वैवं तं क्षते तत्र सोष्मा मांसं विशोष्य च ॥ १५ ॥
कुर्यात्तन्तुनिभं सूत्रं तत्पिण्डैस्तक्रसक्तुजैः ॥
शनैः शनैः क्षताद्याति च्छेदात्कोपं समावहेत् ॥ १६ ॥
तत्पाताच्छोफशान्तिः स्यात्पुनः स्थानान्तरे भवेत् ॥
स स्नायुक इति ख्यातः क्रियोक्ता तु विसर्पवत् ॥ १७ ॥
398
गव्यं सर्पिस्त्र्यहं पीत्वा निर्गुण्डीस्वरसं त्र्यहम् ॥
पीत्वा स्नायुकमत्युग्रं हन्त्यवश्यं न संशयः ॥ १८ ॥
सौभाञ्जनमूलदलैः काञ्जिकपिष्टैर्लवणयुतैर्लेषः ॥
हन्ति स्नायुकरोगं यद्वा मोचत्वचो लेपः ॥ १९ ॥