402
दाडिमाम्लरसैर्युक्ता यूषाः स्युररुचौ हिताः ॥
विसर्पन्ती सविस्फोटा क्लिन्ना स्राववती तथा ॥
दशाङ्गलेपचूर्णेन चूर्णिता शममेति च ॥ २९ ॥
पिबेदम्भस्तप्तशीतं भावितं खदिरासनैः ॥
शौचे वारि प्रयुञ्जीत गायत्रीबहुवारजम् ॥ ३० ॥
जातीपत्रं समञ्जिष्ठं दार्वी पूगफलं शमी ॥ ३१ ॥
धात्रीफलं समधुकं क्वथितं मधुसंयुतम् ॥
मुखरोगे कण्ठरोगे गण्डूषार्थं प्रशस्यते ॥ ३२ ॥
अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना ॥
मधुकं त्रिफला मूर्वा दार्वीत्वङ्नीलमुत्पलम् ॥ ३३ ॥
उशीरलोध्रमञ्जिष्ठाः प्रलेपाश्चोतने हिताः ॥
नश्यन्त्यनेन दृग्जाता मसूर्यो न भवन्ति च ॥ ३४ ॥
पञ्चवल्कलचूर्णेन क्लेदिनीमवचूर्णयेत् ॥
भस्मना केचिदिच्छन्ति केचिग्दोमयरेणुना ॥ ३५ ॥
कृमिपातभयाच्चापि धूपयेत्सरलादिभिः ॥
वेदनादाहशान्त्यर्थं स्रुतानां च विशुद्धये ॥
सगुग्गुलुं वराक्वाथं युञ्ज्याद्वा खदिराष्टकम् ॥ ३६ ॥
कृष्णाभयारजो लिह्यान्मधुना कण्ठशुद्धये ॥
तथाऽष्टाङ्गाबलेहो वा कबलश्चाऽऽर्द्रकादिभिः ॥ ३७ ॥