403
पञ्चतिक्तं प्रयुञ्जीत पानाभ्यञ्जनभोजनैः ॥
कुर्याद्व्रणविधानं च तैलादीन्वर्जयेच्चिरम् ॥ ३८ ॥
निम्बातिमुक्तकास्फोतबिम्बीवेतसवल्कलम् ॥
शृतशीतं प्रयोक्तव्यं स्रावप्रक्षालने सदा ॥ ३९ ॥
निशाद्वयोशीरशिरीषमुस्तकैः सलोध्रभद्रश्रियनागकेसरैः ॥
संस्वेदविस्फोटविसर्पकुष्ठदौर्गन्ध्यरोमान्तिहरः प्रदेहः ॥ ४० ॥

Adhikāra 57

तथाऽजगल्लिकामामां जलौकोभिरुपाचरेत् ॥
शुक्तिसौराष्ट्रिकाक्षारकल्कैश्चाऽऽलेपयेन्मुहुः ॥ १ ॥