89
घृतं नागरकल्केन सिद्धं वातानुलोमनम् ॥
ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम् ॥ ३७ ॥
प्रस्थत्रयेणाऽऽमलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य ॥
चूर्णीकृतैर्ग्रन्थिकजीरचव्यव्योषेभकृष्णाहपुषाजमोदैः ॥ ३८ ॥
विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पलप्रमाणैः ॥
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत् ॥ ३९ ॥
तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टं त्रिसुगन्धियुक्तम् ॥
अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोफाः ॥ ४० ॥
शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः ॥
स्त्रीणां च वन्ध्यामयमाशु हन्यात्कल्याणको नाम गुडः प्रसिद्धः ॥ ४१ ॥
तैले त्रिवृन्मनाग्भृष्ट्वा त्रिसुगन्धि पलं पलम् ॥
सिद्धे निधेयमत्रैव गुडे कल्याणपूर्वके ॥ ४२ ॥