436
आर्द्रकसूर्यावर्तकसौभाञ्जनमूलमूलकस्वरसाः ॥
मधुसैन्धवतैलयुताः पृथगुष्णाः कर्णशूलहराः ॥ ४ ॥
सौभाञ्जनस्य निर्यासस्तिलतैलेन संयुतः ॥
व्यक्तोष्णः पूरणः कर्णे कर्णशूलोपशान्तये ॥ ५ ॥
अष्टानामपि मूत्राणां मूत्रेणान्यतमेन वा ॥
कोष्णेन पूरयेत्कर्णं कर्णशूलोपशान्तये ॥ ६ ॥
अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम् ॥
तैलाक्तमङ्गारचितं निदध्याच्छ्रवणोपरि ॥ ७ ॥
यत्तैलं च्यवते तस्मात्खल्लादङ्गारतापितात् ॥
तत्प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम् ॥ ८ ॥
महतः पञ्चमूलस्य काण्डान्यष्टाङ्गुलानि च ॥
क्षौमेणाऽऽवेष्ट्य संसिच्य तैलेनाऽऽदीपयेत्ततः ॥ ९ ॥
यत्तैलं च्यवते तेभ्यः सुखोष्णं तत्प्रयोजयेत् ॥
ज्ञेयं तद्दीपिकातैलं कर्णशूलनिवारणम् ॥ १० ॥
अर्कस्य पत्रं परिणामपीतमाज्येन लिप्तं शिखिनाऽभितप्तम् ॥
आपीड्य तोयं श्रवणे निषिक्तं निहन्ति शूलं बहुवेदनां च ॥ ११ ॥