445
वातिके तु प्रतिश्याये पिबेत्सर्पिर्यथाक्रमम् ॥ १२ ॥
पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन वा ॥
नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम् ॥ १३ ॥
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम् ॥
परिषेकान्प्रदेहांश्च कुर्यादपि च शीतलान् ॥ १४ ॥
कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया ॥
यवाग्वा वामयित्वा वा श्लेष्मघ्नं क्रममाचरेत् ॥ १५ ॥
दार्वीङ्गुदनिकुम्भैश्च किणिह्या सुरसेन च ॥
वर्तयोऽथ पृथग्योज्या धूम्रपाने यथाविधि ॥ १६ ॥