446
घृततैलेन संयुक्तं सक्तुधूमं पिबेन्नरः ॥
प्रतिश्यायहरं प्रोक्तं कासहिक्कानिवारणम् ॥ १७ ॥
अथवा सघृतान्सक्तून्कृत्वा मल्लकसंपुटे ॥
नवप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत् ॥ १८ ॥
पुटपक्वं जयापत्रं सिन्धुतैलसमन्वितम् ॥
प्रतिश्यायेषु सर्वेषु शीलितं परमौषधम् ॥ १९ ॥
शिरसोऽभ्यञ्जनस्वेदनस्यकट्वम्लभोजनैः ॥
वमनैर्घृतपानैश्च तान्यथास्वमुपाचरेत् ॥ २० ॥
ऊषणं गुडसंयुक्तं स्निग्धदध्यम्लभोजनम् ॥
नवप्रतिश्यायहरं विशेषात्कफपाचनम् ॥ २१ ॥
ततः पक्वं कफं ज्ञात्वा हरेच्छीर्षविरेचनैः ॥
पिप्पल्यः शिग्रुबीजानि विडङ्गमरिचानि च ॥
अवपीडः प्रशस्तोऽयं प्रतिश्यायनिवारणः ॥ २२ ॥
समूत्रपिष्टाश्चोद्दिष्टाः क्रियाः कृमिषु योजयेत् ॥
धावनानि कृमिघ्नानि भेषजानि च बुद्धिमान् ॥ २३ ॥