487
तिष्ठेच्छ्लेष्मणि पित्तेऽष्टौ दश वाते शिरोगदी ॥
एष एव विधिः कार्यस्तथा कर्णाक्षिपूरणे ॥ ७ ॥
पित्तात्मके शिरोरोगे स्निग्धं सम्यग्विरेचयेत् ॥
मृद्वीकात्रिफलेक्षूणां रसैः क्षीरैर्घृतैरपि ॥ ८ ॥
शर्कराक्षीरसलिलैः शिरश्च प्रतिषेचयेत् ॥
सर्पिषः शतधौतस्य शिरसा धारणं हितम् ॥
निमज्जनं च शिरसः शीतले शस्यतेऽम्भसि ॥ ९ ॥
कुमुदोत्पलपद्मानां शीतानां चन्दनाम्बुभिः ॥
स्पर्शाः सुखाश्च पवनाः सेव्या दाहार्तिशान्तये ॥ १० ॥
चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनखोत्पलैः ॥
क्षीरपिष्टैः प्रदेहः स्याच्छृतैर्वा परिषेचनम् ॥ ११ ॥
मृणालबिसशालूकचन्दनोत्पलकेसरैः ॥
स्निग्धशीतैः शिरो दिह्यात्तद्वदामलकोत्पलैः ॥ १२ ॥
यष्ट्याह्वचन्दनानन्ताक्षीरसिद्धं हितं घृतम् ॥
नावनं शर्कराद्राक्षामधुकैर्वाऽपि पित्तजे ॥ १३ ॥