511
वचाकुष्ठं तथा ब्राह्मी सिद्धार्थकमथापि वा ॥
सारिवा सैन्धवं चैव पिप्पली घृतमष्टमम् ॥ ६ ॥
मेध्यं घृतमिदं सिद्धं पातव्यं च दिने दिने ॥
दृढस्मृतिः क्षिप्रमेधाः कुमारो बुद्धिमान्भवेत् ॥ ७ ॥
न पिशाचा न रक्षांसि न भूता न च मातरः ॥
प्रबाधन्ते कुमाराणां पिबतामष्टमङ्गलम् ॥ ८ ॥
पादकल्केऽश्वगन्धायाः क्षीरे दशगुणे पचेत् ॥
घृतं पेयं कुमाराणां पुष्टिकृद्बलवर्धनम् ॥ ९ ॥
लाक्षारससमं सिद्धं तैलं मस्तुचतुर्गुणम् ॥
रास्नाचन्दनकुष्ठाब्दवाजिगन्धानिशायुगैः ॥ १० ॥
शताह्वादारुयष्ट्याह्वमूर्वातिक्ताहरेणुभिः ॥
बालानां ज्वररक्षोघ्नमभ्यङ्गाद्बलवर्णकृत् ॥ ११ ॥
पिष्ट्वा कर्कटकं तैलं सक्षीरं साधितं तु तत् ॥
पादाभ्यङ्गेन बालस्य दन्तध्वनिनिवारणम् ॥ १२ ॥

Adhikāra 68

मूलं तण्डुलवारिणा पिबति यः प्रत्यङ्गिरासंभवं
निष्पिष्टं शुचिभद्रयोगदिवसे तस्याहिभीतिः कुतः ॥
दर्पादेव फणी यदा दशति तं मोहान्वितो मूलपं
स्थाने तत्र तदैव याति नियतं वक्त्रं यमस्याचिरात् ॥ १ ॥