510
सहामुण्डितिकोदीच्यक्वाथस्नानं ग्रहापहम् ॥
सप्तच्छदामयनिशाचन्दनैश्चानुलेपनम् ॥ १ ॥
सर्पत्वग्लशुनं मूर्वा सर्षपारिष्टपल्लवाः ॥
बिडालविडजालोम मेषशृङ्गी वचा मधु ॥
धूपः शिशोर्ज्वरघ्नोऽयमशेषग्रहनाशनः ॥ २ ॥
बलिशान्तीष्टिकर्माणि कार्याणि ग्रहशान्तये ॥ ३ ॥
मन्त्रश्चायं प्रयोक्तव्यस्तत्राऽऽदौ सार्वकार्मि(मि)कः ॥
कं टं यं शं वैनतेयाय नमः । ओंं ह्वां ह्वीं क्षः ॥ ४ ॥
बालदेहप्रमाणेन पुष्पमालां तु सर्वतः ॥
प्रगृह्य मुष्टिकाभक्तं बलिर्देयस्तु शान्तिकः ॥
ओंकारी स्वर्णपक्षी बालकं रक्ष रक्ष स्वाहा ॥ ५ ॥