Adhikāra 69

यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम् ॥
516
पूर्वे वयसि मध्ये वा शुद्धकायः समाचरेत् ॥ १ ॥
अविशुद्धशरीरस्य युक्तो रासायनो विधिः ॥
न भाति वाससि क्लिष्टे रङ्गयोग इवार्पितः ॥ २ ॥
सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् ॥
वर्षादिष्वभया सेव्या रसायनगुणैषिणा ॥ ३ ॥
त्रैफलेनाऽऽयसीं पात्रीं कल्केनाऽऽलेपयेन्नवाम् ॥
तमाहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम् ॥ ४ ॥
प्रभूतस्नेहमशनं जीर्णे तस्मिन्प्रयोजयेत् ॥
अजरोऽरुक्समाभ्यासाज्जीवेच्चापि समाः शतम् ॥ ५ ॥
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम् ॥
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ॥ ६ ॥
आयुष्प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि ॥
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी ॥ ७ ॥
517
ये मासमेकं स्वरसं पिबन्ति दिने दिने भृङ्गरजःसमुथम् ॥
क्षीराशिनस्ते बलवर्णयुक्ताः समाः शतं जीवितमाप्नुवन्ति ॥ ८ ॥
असिततिलविमिश्रान्पल्लवान्भक्षयेद्यः
सततमिह पयोशी भृङ्गराजस्य मासम् ॥
भवति स चिरजीवी व्याधिभिर्विप्रयुक्तो
भ्रमरसदृशकेशः कामचारी मनुष्यः ॥ ९ ॥
पीताऽश्वगन्धा पयसाऽर्धमासं घृतेन तैलेन सुखाम्बुना वा ॥
कृशस्य पुष्टिं वपुषो बिभर्ति बालस्य सस्यस्य यथाऽम्बुवृष्टिः ॥ १० ॥
धात्रीतिलान्भृङ्गरजोविमिश्रान्ये भक्षयेयुर्मनुजाः क्रमेण ॥
ते कृष्णकेशा विमलेन्द्रियाश्च निर्व्याधयोऽप्यामरणाद्भवेयुः ॥ ११ ॥
मासं वचामप्युपसेवमानाः क्षीरेण तैलेन घृतेन वाऽपि ॥
भवन्ति रक्षोभिरधृष्यरूपा मेधाविनो निर्मलमृष्टवाचः ॥ १२ ॥
वृद्धदारुकमूलानि सूक्ष्मचूर्णानि कारयेत् ॥
शतावर्या रसेनैव सप्तवारांश्च भावयेत् ॥ १३ ॥
518
अक्षमात्रं तु तच्चूर्णं सर्पिषा सह योजयेत् ॥
मासमात्रोपयोगेन मतिमाञ्जायते नरः ॥
मेधावी स्मृतिमांश्चैव वलीपलितवर्जितः ॥ १४ ॥
हस्तिकर्णरजः खादेत्प्रातरुत्थाय सर्पिषा ॥
यथेष्टाहारचारोऽपि सहस्रायुर्भवेन्नरः ॥ १५ ॥
मेधावी बलवान्कामी स्त्रीशतानि व्रजत्यसौ ॥
मधुना त्वश्ववेगः स्याद्बलिष्ठः स्त्रीसहस्रगः ॥ १६ ॥
अयं मन्त्रः प्रयोक्तव्यो भिषजा चाभिमन्त्रणे ॥
ओंं नमो विनायकाय अमृतं रक्ष रक्ष मम फलसिद्धिं
देहि देहि रुद्रवचनेन स्वाहा ॥ १७ ॥
पुनर्नवस्यार्धपलं नवस्य पिष्टं पिबेद्यः पयसाऽर्धमासम् ॥
मासद्वयं तत्त्रिगुणं समां वा जीर्णोऽपि भूयः स पुनर्नवः स्यात् ॥ १८ ॥
धात्रीचूर्णस्य कंसं स्वरसपरिगतं क्षौद्रसर्पिः समांशं
कृष्णामानीसिताष्टप्रसृतियुतमिदं स्थापितं भस्मराशौ ॥
वर्षान्ते तत्समश्नन्भवति विपलितो रूपवर्णप्रभावै-
र्निर्व्याधिर्बुद्धिमेधास्मृतिवचनबलस्थैर्यसत्त्वैरुपेतः ॥ १९ ॥
गुडूच्यपामार्गविडङ्गशङ्खिनीवचाभयाशुण्ठिशतावरीसमम् ॥
घृतेन लीढं प्रकरोति मानवं त्रिभिर्दिनैः श्लोकसहस्रधारिणम् ॥ २० ॥
519
ब्राह्मी वचा अश्वगन्धापिप्पल्यो मधुसंयुताः ॥
आसां प्रयोगात्सप्ताहात्किंनरैः सह गीयते ॥ २१ ॥
तीव्रेण कुष्ठेन परीतदेहो यः सोमराजीं नियमेन खादेत् ॥
संवत्सरं कृष्णतिलद्वितीयां स सोमराजीं वपुषाऽतिशेते ॥ २२ ॥
पञ्च भल्लातकांश्छित्वा साधयेद्विधिवज्जले ॥ २३ ॥
कषायं तु पिबेच्छीतं घृतेनाक्तोष्ठतालुकः ॥
पञ्चवृद्ध्या पिबेद्यावत्सप्ततिं ह्वासयेत्ततः ॥ २४ ॥
जीर्णेऽद्यादोदनं शीतं घृतक्षीरोपसंहितम् ॥
एतद्रसायनं मेध्यं वलीपलितनाशनम् ॥ २५ ॥
कुष्ठार्शःकृमिदोषघ्नं दुष्टशुक्रविशोधनम् ॥
भल्लातकक्वाथपाने मन्त्रोऽयं पठ्यते क्वचित् ॥ २६ ॥
वरुण त्वं हि देवानाममृतं परिकल्पसे ॥
आयुरारोग्यसिद्ध्यर्थमस्माकं वरदो भव ॥ २७ ॥
520
तैलं भल्लातकानां तु पिबेन्मासं यथाबलम् ॥
सर्वोपद्रवनिर्मुक्तो जीवेद्वर्षशतं दृढः ॥ २८ ॥
कासश्वासातिसारज्वरपिटककटीकोठकुष्ठप्रमेहा-
न्मूत्राघातोदरार्शःश्वयथुगलशिरःकर्णशङ्खाक्षिरोगान् ॥
ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तो-
स्तांस्तानभ्यासयोगादपनयति पयः पीतमन्ते निशायाः ॥ २९ ॥
विगतघननिशीथे प्रातरुत्थाय नित्यं
पिवति खलु नरो यो घ्राणरन्ध्रेण वारि ॥
स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो
वलिपलितविहीनः सर्वरोगैर्विमुक्तः ॥ ३० ॥
521
अम्भसः प्रसृतान्यष्टौ रवावनुदिते पिबन् ॥
वातपित्तगदान्हन्ति जीवेद्वर्षशतं नरः ॥ ३१ ॥
व्यङ्गवलीपलितघ्नं पीनसवैस्वर्यकासशोषघ्नम् ॥
रजनीक्षयेऽम्बुनस्यं रसायनं दृष्टिजननं च ॥ ३२ ॥
तद्वत्त्रिफलाम्बु निशिस्थं वलिपलितहरं दृष्टिदं श्रेष्ठम् ॥
प्रसृतिद्वयं तु पातव्यं नासया नाधिकं मतम् ॥ ३३ ॥
न केवलं दीर्घमिहाऽऽयुरश्नुते रसायनं यो विधिवन्निषेवते ॥
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथैव चाक्षरम् ॥ ३४ ॥