Adhikāra 70

तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते ॥
ध्वजः पतत्यथो नॄणां क्लैब्यं समुपजायते ॥ १ ॥
522
अन्नैरम्लोष्णलवणैरतिमात्रोपसेवितैः ॥
सौम्यधातुक्षयो दृष्टः क्लैब्यं तदपरं स्मृतम् ॥ २ ॥
अतिव्यवायशीलो वा न च वाजीक्रियारतः ॥
ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकम् ॥ ३ ॥
523
असाध्यं सहजं क्लैब्यं मर्मच्छेदात्तु यद्भवेत् ॥
साध्यानामवशिष्टानां कार्यो वाजीकरो विधिः ॥ ४ ॥
524
पिप्पलीलवणोपेतौ बस्ताण्डौ क्षीरसर्पिषा ॥
साधितौ भक्षयेद्यस्तु स गच्छेत्प्रमदाशतम् ॥ ५ ॥
बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् ॥
यः खादेत्स नरो गच्छेत्स्त्रीणां शतमपूर्ववत् ॥ ६ ॥
चूर्णं विदार्याः सुकृतं स्वरसेनैव भावितम् ॥
सर्पिःक्षौद्रयुतं लीढ्वा दश गच्छेन्नरोऽङ्गनाः ॥ ७ ॥
एवमामलकं चूर्णं स्वरसेनैव भावितम् ॥ ८ ॥
शर्करामधुसर्पिर्भिर्युक्तं लीढ्वा पयः पिबेत् ॥
एतेनाशीतिवर्षोऽपि युवेव परिहृष्यति ॥ ९ ॥
525
विदारिकन्दचूर्णं तु शृतेन पयसा नरः ॥
उदुम्बरसमं खादन्वृद्धोऽपि तरुणायते ॥ १० ॥
स्वयंगुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम् ॥
धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत् ॥ ११ ॥
उच्चटाचूर्णमप्येवं क्षीरेणोत्तममुच्यते ॥
शतावर्युच्चटाचूर्णं पेयमेवं सुखाम्बुना ॥ १२ ॥
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम् ॥
पयोनुपानं यो लिह्यान्नित्यवेगः स ना भवेत् ॥ १३ ॥
गोक्षुरकः क्षुरकः शतमूली वानरी(रि) नागबलाऽतिबला च ॥
चूर्णमिदं पयसा निशि पेयं यस्य गृहे प्रमदाशतमस्ति ॥ १४ ॥
त्रिकण्टविदारीनिस्तुषतिलबहुपुत्रीरजश्चतुष्प्रस्थम् ॥
भल्लातकप्रस्थयुगं तत्सप्तोनं गुडूच्याश्च ॥ १५ ॥
526
पञ्चत्रिंशन्मधुनो व्योषस्याष्टौ पलानि दश वह्नेः ॥
तद्द्विगुणा वाराही सप्तगुणा शर्करा दहनात् ॥ १६ ॥
मध्वर्धं घृतमेतत्परिमृज्य स्निग्धभाजने निहितम् ॥
अद्याद्यथाग्नि हन्तुं रोगानीकं क्षयं कासम् ॥ १७ ॥
अश्मर्युदरभगंदरकुष्ठवलीपलितपीनसं षाण्ढ्यम् ॥
नृसिंहसदृशविक्रममपत्यमभिवाञ्छितं लभते ॥ १८ ॥
बलवर्णस्वरकान्तिबुद्ध्युत्साहसत्त्वसंयुक्तम् ॥
उपयुज्य चूर्णमब्दं शुद्धतनुर्नारसिंहाख्यम् ॥ १९ ॥
वराहमूर्धवत्कन्दो वाराहीकन्दसंज्ञितः ॥
भिषजां तदलाभेन चर्मकारालुको मतः ॥ २० ॥
घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत् ॥
शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुच्यते ॥ २१ ॥
गोधूमात्तु पलशतं निष्क्वाथ्य सलिलाढके ॥
पादावशेषे पूते च द्रव्याणीमानि दापयेत् ॥ २२ ॥
गोधूममुञ्जातफलं माषा द्राक्षा परूषकम् ॥
काकोली क्षीरकाकोली जीवन्ती सशतावरी ॥ २३ ॥
अश्वगन्धा सखर्जूरा मधुकं त्र्यूषणं सिता ॥
भल्लातकं स्वयंगुप्ता समभागानि कारयेत् ॥ २४ ॥
घृतप्रस्थं पचेदेवं क्षीरं दत्त्वा चतुर्गुणम् ॥
मृद्वग्निनाऽथ सिद्धे च द्रव्याण्येतानि निक्षिपेत् ॥ २५ ॥
त्वगेले पिप्पली धान्यं कर्पूरं नागकेसरम् ॥
यथालाभं विनिक्षिप्य सिताक्षौद्रपलाष्टकम् ॥ २६ ॥
दत्त्वेक्षुदण्डेनाऽऽलोड्य विधिवद्विनियोजयेत् ॥
शाल्योदनेन भुञ्जीत पिबेन्मांसरसेन वा ॥ २७ ॥
527
केवलस्य पिबेदस्य पलमात्रं प्रमाणतः ॥
न तस्य लिङ्गशैथिल्यं न च शुक्रक्षयो भवेत् ॥ २८ ॥
बल्यं परं वातहरं शुक्रसंजननं परम् ॥
मूत्रकृच्छ्रप्रशमनं वृद्धानामपि शस्यते ॥ २९ ॥
पलद्वयं तदश्नीयाद्दशरात्रमतन्द्रितः ॥
स्त्रीणां शतं च भजते पीत्वा चानुपिबेत्पयः ॥
अश्विभ्यां निर्मितं चैतद्गोधूमाज्यं रसायनम् ॥ ३० ॥
कर्पूरागुरुचोचबोलनलिकालाक्षाशठीधातकी-
पुष्पैः सप्तदलैलबालुसरलाशैलेयमांसीपुरैः ॥
एलाकुङ्कुमरोचनादमनकश्रीवासजातीफलैः
कङ्कोलक्रमुकोजटामदमुराकान्तालवङ्गामयैः ॥ ३१ ॥
तैलोशीरहरेणुकामलयजस्थौणेयचण्डानखै-
र्जातीकोशकुलीरपद्मकनतैः स्पृक्कान्वितैः पालिकैः ॥
लाक्षायोजनवल्लिलोध्रसलिले तैलं विपाच्याऽऽढकं
तेनाभ्यज्य तनुं जरन्नपि भवेत्स्त्रीणां परं वल्लभः ॥ ३२ ॥
शुक्राढ्यो द्युतिमाननल्पतनयः षण्ढोऽपि रत्युत्सुको
वन्ध्या गर्भवती भवेदपि तथा वृद्धाऽपि सूते सुतम् ॥
कण्डूस्वेदविचर्चिकामयहरं दौर्गन्ध्यकुष्ठापह-
मश्विभ्यां परिकीर्तितं बहुगुणं तैलं सुगन्धं महत् ॥ ३३ ॥
528
कूष्माण्डकात्पलशतं सुस्विन्नं निष्कुलीकृतम् ॥
प्रस्थं च घृततैलस्य तस्मिंस्तप्ते प्रदापयेत् ॥ ३४ ॥
त्वक्पत्रधान्यकव्योषजीरकैलाद्वयानलम् ॥
ग्रन्थिकं चव्यमातङ्गपिप्पल्यः शृङ्गवेरकम् ॥ ३५ ॥
शृङ्गाटकं कसेरुं च प्रलम्बं तालमस्तकम् ॥
चूर्णीकृतं पलांशं तु गुडस्य तुलया पचेत् ॥ ३६ ॥
शीतीभूते पलान्यष्टौ मधुनः संप्रदापयेत् ॥
कफपित्तानिलहरं मन्दाग्नीनां च दीपनम् ॥ ३७ ॥
कृशानां बृंहणं श्रेष्ठं वाजीकरणमुत्तमम् ॥
प्रमदासु प्रसक्तानां ये च स्युः क्षीणरेतसः ॥ ३८ ॥
क्षयेण च गृहीतानां परमेतद्भिषग्जितम् ॥
कासं श्वासं ज्वरं हिक्कां हन्ति च्छर्दिमरोचकम् ॥ ३९ ॥
गुडकूष्माण्डकं ख्यातमश्विभ्यां समुदाहृतम् ॥
खण्डकूष्माण्डवत्पात्रं स्विन्नकूष्माण्डकद्रवः ॥ ४० ॥
यत्किंचिन्मधुरं स्निग्धं बृंहणं जीवनं गुरु ॥
हर्षणं मनसश्चैव तत्सर्वं वृष्यमुच्यते ॥ ४१ ॥
सुरूपा यौवनस्था या भूषणैश्च विभूषिता ॥
या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता ॥ ४२ ॥
नान्तर्वै षोडशाद्वर्षात्सप्ततेः परतो न च ॥
आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति ॥ ४३ ॥
529
भोजनानि विचित्राणि पानानि विविधानि च ॥
वाचः श्रोत्रानुगामिन्यस्त्वक्सुखस्पर्शनानि च ॥ ४४ ॥
गन्धा मनोज्ञा रूपाणि विचित्रोपवनानि च ॥
मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम् ॥ ४५ ॥
जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्शनात् ॥
क्षयं गच्छत्यनशनात्स्त्रीणां चातिनिषेवणात् ॥ ४६ ॥
क्षयाद्भङ्गा(या)दविस्रम्भाच्छोकात्स्त्रीदोषदर्शनात् ॥
नारीणामरसज्ञत्वादभिघातादसेवनात् ॥ ४७ ॥
भल्लातकास्थिजलशूकमथाक्ष(ब्ज)पत्र-
मन्तर्विदह्य मतिमान्सह सैन्धवेन ॥
एतद्विरूढबृहतीफलतोयपिष्ट-
मालेपनं महिषविड्विमलीकृताङ्गे ॥ ४८ ॥
स्थूलं महद्वरतुरंगमतुल्यमाशु
शेफः करोत्यभिमतं न हि संशयोऽस्ति ॥ ४९ ॥
कासीसतुरगगन्धासावरगजपिप्पलीविपक्वेन ॥
तैलेन यान्ति वृद्धिं नियतं स्तनकर्णवराङ्गलिङ्गानि ॥ ५० ॥