541
पाण्डुर्मेही रक्तपित्ती तृषार्तः क्षतक्षीणो दुर्बलोऽजीर्णभुक्तः ॥
दकोदरी गर्भिणी पानपश्च नैते स्वेद्या यश्च मर्त्योऽतिसारी ॥ १६ ॥
स्वेदादेषां याति देहो विनाशं नो साध्यत्वं यान्ति चैषां विकाराः ॥ १७ ॥

Adhikāra 73

वमनं रेचनं नस्यं निरूहं सानुवासनम् ॥
ज्ञेयं पञ्चविधं कर्म विधानं तस्य कथ्यते ॥ १ ॥
दोषाः कदाचित्कुप्यन्ति जिता लङ्नपाचनैः ॥
जिताः संशोधनैर्ये तु न तेषां पुनरुद्भवः ॥ २ ॥