Adhikāra 6
समस्य रक्षणं कार्यं विषमे वातनिग्रहः ॥
तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेष्मविशोधनम् ॥ १ ॥
त्रिकटुकमजमोदा सैन्धवं जीरके द्वे समधरणधृतानामष्टमो हिङ्गुभागः ॥
प्रथमकवलभुक्तं सर्पिषा चूर्णमेतत्प्रबलयति हुताशं वातरोगान्निहन्ति ॥ २ ॥
आदौ मण्डं पिबेदुष्णं हिङ्गुसौवर्चलान्वितम् ॥
विषमोऽपि समस्तेन मन्दो दीप्येत पावकः ॥ ३ ॥
क्षुद्बोधनो बस्तिविशोधनश्च प्राणप्रदः शोणितवर्धनश्च ॥
ज्वरापहारी कफपित्तहन्ता वायुं जयेदष्टगुणो हि मण्डः ॥ ४ ॥
सुतण्डुलानां प्रसृतिद्वयं च तदर्धमुद्गं कटुकं सतक्रम् ॥
कुस्तुम्बरीसैन्धवहिङ्गुतैलमेभिश्च सर्वैः क्रियते हि मण्डः ॥ ५ ॥
वर्धमानो भवेत्तीक्ष्णो भस्मकाख्यो महानलः ॥
तस्मात्तं माहिषैः सर्पिर्दधिक्षीरैर्जयेद्भिषक् ॥ ६ ॥
यत्किंचिद्गुरु मेध्यं च श्लेष्मकारि च भेषजम् ॥
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा ॥ ७ ॥
हरीतकी भक्ष्यमाणा नागरेण गुडेन च ॥
सैन्धवोपहिता वाऽपि सातत्येनाग्निदीपनी ॥ ८ ॥
भोजनाग्रे सदा पथ्यं जिह्वाकण्ठविशोधनम् ॥
अग्निसंदीपनं हृद्यं लवणार्द्रकभक्षणम् ॥ ९ ॥
सिन्धूत्थपथ्यमगधोद्भववह्निचूर्णमुष्णाम्बुना पिबति यः खलु नष्टवह्निः ॥
तस्याऽऽमिषेण सघृतेन वरं नवान्नं भस्मी भवत्यशितमात्रमपि क्षणेन ॥ १० ॥
विश्वाभयागुडूचीनां कषायेण षडूषणम् ॥
पिबेच्छ्लेष्मणि मन्देऽग्नौ त्वक्पत्रसुरभीकृतम् ॥ ११ ॥
सिन्धूत्थहिङ्गुत्रिफलायवानीव्योषैर्गुडांशैर्गुटिकां प्रकुर्यात् ॥
तां भक्षयेत्तृप्तिमवाप्नुवन्ना भुञ्जीत मन्दाग्निरपि प्रभूतम् ॥ १२ ॥
गुडेन शुण्ठीमथवोपकुल्यां पथ्यातृतीयामथ दाडिमं च ॥
आमेष्वजीर्णेषु गुदामयेषु वर्चोविबन्धेषु च नित्यमद्यात् ॥ १३ ॥
विडङ्गभल्लातकचित्रकामृताः सनागरास्तुल्यगुडेन सर्पिषा ॥
लिहन्ति ये मन्दहुताशना नरा भवन्ति ते वाडवतुल्यवह्नयः ॥ १४ ॥
हरीतकी धान्यतुषोदसिद्धा सपिप्पली सैन्धवहिङ्गुयुक्ता ॥
सोद्गारधूमं भृशमप्यजीर्णं विजित्य सद्यो जनयेद्धुताशम् ॥ १५ ॥
ग्लानिगौरवविष्टम्भभ्रममारुतमूढताः ॥
विबन्धोऽतिप्रवृत्तिर्वा सामान्याजीर्णलक्षणम् ॥ १६ ॥
प्रायेणाऽऽहारवैषम्यादजीर्णं जायते नृणाम् ॥
तन्मूलो रोगसंघातस्तद्विनाशाद्विनश्यति ॥
वचालवणतोयेन वान्तिरामे प्रशस्यते ॥ १७ ॥
अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति ॥
तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावान्निपतत्यधस्तात् ॥ १८ ॥
विष्टब्धे स्वेदनं कार्यं पेयं च लवणोदकम् ॥
रसशेषे दिवास्वप्नो लङ्घनं वातवर्जनम् ॥ १९ ॥
व्यायामप्रमदाध्ववाहनरतक्लान्तानतीसारिणः
शूलश्वासवतस्तृषापरिगतान्हिक्कामरुत्पीडितान् ।
क्षीणान्क्षीणकफाञ्शिशून्मदहतान्वृद्धान्रसाजीर्णिनो
रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत् ॥ २० ॥
धान्यनागरसंसिद्धं तोयं दद्याद्विचक्षणः ॥
आमाजीर्णप्रशमनं शूलघ्नं बस्तिशोधनम् ॥ २१ ॥
पथ्यापिप्पलिसंयुक्तं चूर्णं सौवर्चलं पिबेत् ॥
मस्तुनोष्णोदकेनापि बुद्ध्वा दोषगतिं भिषक् ॥ २२ ॥
चतुर्विधमजीर्णं च मन्दानलमथारुचिम् ॥
आध्मानं वातगुल्मं च शूलं चाऽऽशु नियच्छति ॥ २३ ॥
भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले ॥
पूर्वं सशुण्ठीमभयामशङ्को भुञ्जीत संप्राश्य हितं हिताशी ॥ २४ ॥
विदह्यते यस्य तु भुक्तमात्रं दह्येत हृत्कोष्ठगलं च यस्य ॥
द्राक्षासितामाक्षिकसंप्रयुक्तां लीढ्वाऽभयां वै स सुखं लभेत ॥ २५ ॥
प्रातराशे त्वजीर्णे तु सायमाशो न दुष्यति ॥
सायमाशे त्वजीर्णे तु प्रातराशो हि दुष्यति ॥ २६ ॥
हिङ्गुभागो भवेदेको वचा च द्विगुणा भवेत् ॥ २७ ॥
पिप्पली त्रिगुणा देया शृङ्गवेरं चतुर्गुणम् ॥
यवानिका पञ्चगुणा षड्गुणा च हरीतकी ॥ २८ ॥
चित्रकं सप्तगुणितं कुष्ठं चाष्टगुणं भवेत् ॥
एतद्वातहरं चूर्णं पीतमात्रं प्रसन्नया ॥ २९ ॥
पिवेद्दध्ना मस्तुना वा सुरया कोष्णवारिणा ॥
सोदावर्तमजीर्णं च प्लीहानमुदरं तथा ॥ ३० ॥
अङ्गानि यस्य शीर्यन्ते विषं वा येन भक्षितम् ॥
अर्शोघ्नं दीपनं चैव शूलघ्नं गुल्मनाशनम् ॥ ३१ ॥
कासं श्वासं निहन्त्याशु तथैव क्षयनाशनम् ॥
चूर्णमग्निमुखं नाम न क्वचित्प्रतिहन्यते ॥ ३२ ॥
द्वौ क्षारौ चित्रकं पाठा करञ्जं लवणानि च ॥
सूक्ष्मैला पत्रकं भार्ङ्गी कृमिघ्नं हिङ्गु पुष्करम् ॥ ३३ ॥
शठी दार्वी त्रिवृन्मुस्तं वचा चेन्द्रयवास्तथा ॥
धात्री जीरकवृक्षाम्लश्रेयसी चोपकुञ्चिका ॥ ३४ ॥
अम्लवेतसमम्लीका दाडिमं सकटुत्रिकम् ॥
भल्लातकाजमोदं च यवानी सुरदारु च ॥ ३५ ॥
अभयाऽतिविषा श्यामा हपुषाऽऽरग्वधं समम् ॥
तिलमुष्ककशिग्रूणां कोकिलाक्षपलाशयोः ॥ ३६ ॥
क्षाराणि लोहकिट्टं च तप्तं गोमूत्रसेचितम् ॥
समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् ॥ ३७ ॥
मातुलुङ्गरसेनैव भावयेच्च दिनत्रयम् ॥
दिनत्रयं तु शुक्तेन आर्द्रकस्वरसेन च ॥ ३८ ॥
अत्यग्निकारकं चूर्णं प्रदीप्ताग्निसमप्रभम् ॥
उपयुक्तं विधानेन नाशयत्यचिराद्गदान् ॥ ३९ ॥
अजीर्णकमथो गुल्मान्प्लीहानं गुदजानि च ॥
उदराण्यन्त्रवृद्धिं च अष्ठीलां वातशोणितम् ॥ ४० ॥
प्रणुदत्युल्बणान्रोगान्नष्टमग्निं प्रदीपयेत् ॥
समस्तव्यञ्जनोपेतं भक्तं दत्त्वा तु भोजने ॥ ४१ ॥
दापयेदस्य चूर्णस्य बिडालपदमात्रकम् ॥
गोदोहमात्रात्तत्सर्वं द्रवी भवति सोष्मकम् ॥ ४२ ॥
पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पली ॥
हिङ्गु चव्याजमोदे च पञ्चैव लवणानि च ॥ ४३ ॥
द्वौ क्षारौ हपुषा चैव दद्यादर्धपलोन्मितान् ॥
दधिकाञ्जिकशुक्तानि घृतमात्रासमानि च ॥ ४४ ॥
आर्द्रकस्य रसप्रस्थे घृतप्रस्थं विपाचयेत् ॥
एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते ॥ ४५ ॥
अर्शसां नाशनं श्रेष्ठं तथा गुल्मोदरापहम् ॥
ग्रन्थ्यर्बुदापचीकासकफमेदोनिलानपि ॥ ४६ ॥
नाशयेद्ग्रहणीदोषं श्वयथुं सभगंदरम् ॥
ये च बस्तिगता रोगा ये च कुक्षिसमाश्रिताः ॥
सर्वांस्तान्नाशयत्याशु सूर्यस्तम इवोदितः ॥ ४७ ॥
वह्नेर्द्विपञ्चमूलस्य क्वाथे पलशतद्वये ॥ ४८ ॥
अमृताया रसस्यैके पूतेऽस्मिन्नभयाढकम् ॥
पचेद्गुडतुलां दत्त्वा यावदापाकलक्षणम् ॥ ४९ ॥
अन्येद्युस्तत्र मधुनः सुशीतकुडवद्वयम् ॥
प्रक्षिपेत्त्रिसुगन्धस्य त्रिकटोश्च पलद्वयम् ॥ ५० ॥
प्रत्येकं स्याद्यवक्षाराद्यु(च्छु) क्तिस्तस्मिन् रसायने ॥
उत्तमं कथितं पुंसामश्विभ्यामग्निवृद्धये ॥ ५१ ॥
जीर्यत्यपि च काष्ठानि कासश्वासक्षयकृमीन् ॥
गुल्मोदरार्शःशूलानि सान्त्रवृद्धीनि हन्ति च ॥ ५२ ॥
योगशतैरप्यजितांस्त्र्यहाज्जयति पीनसान् ॥
पाठान्तरे चात्र प्रविशति धात्रीरसपलशतम् ॥ ५३ ॥
प्रस्थं तण्डुलतोयतस्तुषजलात्प्रस्थत्रयं चाम्लतः
प्रस्थार्धं दधितोऽपि मूलकपलान्यष्टौ गुडान्मानिके ॥
मान्यौ शोधितशृङ्गवेरशकलाद्द्वे सिन्ध्वजाज्योः
पले द्वे कृष्णोषणयोर्निशापलयुगं निक्षिप्य भाण्डे दृढे ॥ ५४ ॥
स्निग्धे धान्ययवादिराशिनिहितं त्रीन्वासरान्वासये-
द्ग्रीष्मे तोयधरात्यये च चतुरो वर्षासु पुष्पागमे ॥
षट्शीतेऽष्ट दिनान्यतः परमिदं विस्राव्य संचूर्णये-
च्चातुर्जातपलेन संहितमिदं शुक्तं च चुक्रं च तत् ॥
हन्याद्वातकफामदोषजनितान्नानाविधानामया-
न्दुर्नामानिलशूलगुल्मजठरान्हत्वाऽनलं दीपयेत् ॥ ५५ ॥
यन्मस्त्वादि शुचौ भाण्डे सगुडक्षौद्रकाञ्जिकम् ॥
धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ ५६ ॥
गुडक्षौद्रारनालानि समस्तूनि यथोत्तरम् ॥
शंसन्ति द्विगुणान्भागान्सम्यक्चुक्रस्य सिद्धये ॥ ५७ ॥
कुष्ठसैन्धवयोः कल्कं चुक्रतैलसमन्वितम् ॥
विषूच्यां मर्दनं कोष्णं खल्लीशूलनिवारणम् ॥ ५८ ॥
करञ्जनिम्बशिखरीगुडूच्यर्जकवत्सकैः ॥
पीतः कषायो वमनाद्धोरां हन्ति विषूचिकाम् ॥ ५९ ॥
व्योषं करञ्जस्य फलं हरिद्रां मूलं समावाप्य च मातुलुङ्ग्याः ॥
छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विषूचीं नयनाञ्जनेन ॥ ६० ॥
त्वक्पत्ररास्नागुरुशिग्रुकुष्ठैरम्लप्रपिष्टैः सवचाशताह्वैः ॥
उद्वर्तनं खल्लिविषूचिकाघ्नं तैलं विपक्वं च तदर्थकारि ॥ ६१ ॥
पिपासायामनुत्क्लेशे लवङ्गस्याम्बु शस्यते ॥
जातीफलस्य वा शीतं शृतं भद्रघनस्य वा ॥ ६२ ॥
विषूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते ॥ ६३ ॥
सरुक्चाऽऽनद्धमुदरमम्लपिष्टैश्च लेपयेत् ॥
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः ॥ ६४ ॥
तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्ति जठरे निहन्यात् ॥
स्वेदो घटैर्वा बहुबाष्पपूर्णैरुष्णैस्तथाऽन्यैरपि पाणितापैः ॥ ६५ ॥
तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम् ॥
दोषच्छन्नोऽनलो नालं पक्तुं दोषौषधाशनम् ॥ ६६ ॥
सुवामितं साधु विरेचितं च सुलङ्घितं वा मनुजं विदित्वा ॥
पेयादिभिर्दीपनपाचनीयैः सम्यक्क्षुधार्तं समुपक्रमेत ॥ ६७ ॥