613
यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः ॥
उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ॥ ३२ ॥
नाऽऽहरत्यन्नमास्यस्थं न धारयति यः शिरः ॥
न स्वाङ्गुलित्रयं याति दन्ताः शुष्यन्ति यस्य वा ॥ ३३ ॥
बलवान्दुर्बलो वाऽपि संमोहं योऽधिगच्छति ॥
उत्थाप्यमानो बहुशस्तं गतायुषमादिशेत् ॥ ३४ ॥
निवर्तते महाव्याधिः सहसा यस्य देहिनः ॥
न चाऽऽहारफलं यस्य दृश्यते स विनश्यति ॥ ३५ ॥
नासा भङ्गं गता यस्य सप्तरात्रं स जीवति ॥ ३६ ॥

Adhikāra 81