1

ओंं तत्सद्ब्रह्मणे नमः ।

वृन्दप्रणीतो
वृन्दमाधवापरनामा सिद्धयोगः ।
श्रीकण्ठदत्तविरचितव्याख्याकुसुमावल्याख्य
टीकासमेतः ।

Adhikāra 1

ध्यात्वा शिवं परमतत्त्वविचारवेद्यं चण्डीमभीष्टफलदां सगणं गणेशम् ॥
धन्वन्तरिं मुनिवरं मुनिसुश्रुतादीनात्रेयमुग्रतपसं मनसा प्रणम्य ॥ १ ॥