130
शालिपर्ण्यादिना सिद्धा पेया पूर्वमधोगते ॥
रक्तातीसारहन्ता च योज्यो विधिरशेषतः ॥ ६ ॥
क्षीणमांसबलं बालं वृद्धं शोषसमन्वितम् ॥
अवम्यमविरेच्यं च स्तम्भनैः समुपाचरेत् ॥ ७ ॥
वृषपत्राणि निष्पीड्य रसं समधुशर्करम् ॥
पिबेत्तेन शमं याति रक्तपित्तं सुदारुणम् ॥ ८ ॥
आटरूषकनिर्यूहे प्रियंगुं मृत्तिकाञ्जने ॥
विनीय लोध्रं सक्षौद्रं रक्तपित्तहरं पिबेत् ॥ ९ ॥
वासाकषायोत्पलमृत्प्रियंगुलोध्राञ्जनाम्भोरुहकेसराणि ॥
पीत्वा सिताक्षौद्रयुतानि जह्यात्पित्तासृजो वेगमुदीर्णमाशु ॥ १० ॥
वासायां विद्यमानायामाशायां जीवितस्य च ॥
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥ ११ ॥