Adhikāra 10

शालिषष्टिकगोधूमयवमुद्गादयः शुभाः ॥
मद्यानि जाङ्गलाः पक्षिमृगाः शस्ता विशुष्यतः ॥ १ ॥
सपिप्पलीकं सयवं सकुलत्थं सनागरम् ॥
सदाडिमं सामलकं स्निग्धमाजं रसं पिबेत् ॥ २ ॥
तेन षड्विनिवर्तन्ते विकाराः पीनसादयः ॥
द्रव्यतो द्विगुणं मांसं सर्वतोऽष्टगुणं जलम् ॥
पादस्थं संस्कृतं चाऽऽज्ये षडङ्गो यूष उच्यते ॥ ३ ॥
142
धान्याकपिप्पलीविश्वदशमूलीजलं पिबेत् ॥
पार्श्वशूलज्वरश्वासपीनसादिनिवृत्तये ॥ ४ ॥
अश्वगन्धामृताभीरुदशमूलीबलावृषाः ॥
पुष्करातिविषे घ्नन्ति क्षयं क्षीररसाशिनः ॥ ५ ॥
दशमूलीबलारास्नापुष्करैः सुरदारुभिः ॥
नागरैः क्वथितं पेयं क्षयकासादिशान्तये ॥ ६ ॥
ककुभत्वङ्नागबलावानरिबीजानि चूर्णितं पयसि ॥
पक्वं मधुघृतयुक्तं ससितं यक्ष्मादिकासहरम् ॥ ७ ॥
मधुताप्यविडङ्गाश्मजतुलोहघृतामयाः ॥
घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिना ॥ ८ ॥
कृष्णाद्राक्षासितालेहः क्षयहा क्षौद्रतैलवान् ॥
मधुसर्पिर्युतो वाऽश्वगन्धाकृष्णासितोद्भवः ॥ ९ ॥
शर्करामधुसंयुक्तं नवनीतं लिहन्क्षयी ॥
क्षीराशी लभते पुष्टिमतुल्ये वाऽऽज्यमाक्षिके ॥ १० ॥
143
सितोपलातुगाक्षीरीपिप्पलीबहुलात्वचः ॥ ११ ॥
अन्त्यादूर्ध्वं द्विगुणितं लेहयेन्मधुसर्पिषा ॥
चूर्णितं प्राशयेद्वाऽपि श्वासकासकफातुरम् ॥ १२ ॥
पार्श्वशूलिनमल्पाग्निं सुप्तजिह्वमरोचिनम् ॥
हस्तपादांसदाहेषु ज्वरे रक्ते तथोर्ध्वगे ॥ १३ ॥
दशमूलीशृतात्क्षीरात्सर्पिर्यदुदियान्नवम् ॥
तत्कणामधुसंयुक्तं घृतं स्वरविशोधनम् ॥ १४ ॥
शिरोंसपार्श्वशूलघ्नं श्वासकासज्वरापहम् ॥
सिद्धं जगति विख्यातं शोषिणां परमौषधम् ॥ १५ ॥
शतपुष्पां नतं कुष्ठं मधुकं देवदारु च ॥
पिष्ट्वा लेपः ससर्पिष्कः पृष्ठपार्श्वांसरुक्षु च ॥ १६ ॥
चूर्णं काकुभमिष्टं वासकरसपरिभावितं बहून्वारान् ॥
घृतमधुसितोपलाभिर्लेह्यं क्षयकासरक्तपित्तहरम् ॥ १७ ॥
एलाजमोदामलकाभयाक्षगायत्रिनिम्बासनशालसारान् ॥
विडङ्गभल्लातकचित्रकांश्च कटुत्रिकाम्भोदसुराष्ट्रजांश्च ॥ १८ ॥
पक्त्वा जले तेन पचेत्तु सर्पिस्तस्मिन्सुसिद्धे त्ववतारिते च ॥
त्रिंशत्पलान्यत्र सितोपलाया दद्यात्तुगाक्षीरिपलानि षट् च ॥ १९ ॥
प्रस्थे घृतस्य द्विगुणं च दद्यात्क्षौद्रं ततो मन्थहतं विदध्यात् ॥
पलं पलं प्रातरतो लिहेच्च पश्चात्पिबेत्क्षीरमतन्द्रितश्च ॥ २० ॥
144
एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यतमं तथैव ॥
यक्ष्माणमाशु व्यपहन्ति नूनं पाण्ड्वामयं चापि भगंदरं च ॥ २१ ॥
श्वासं च हन्ति स्वरभेदकासहृत्प्लीहगुल्मग्रहणीगदांश्च ॥
न चात्र किंचित्परिवर्जनीयं रसायनं चैतदुपास्यमानम् ॥ २२ ॥
बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा ॥
पञ्चानां क्षीरिवृक्षाणां शृङ्गा मुष्ट्यंशका अपि ॥ २३ ॥
एषां कषाये द्विक्षीरे विदार्याजरसांशके ॥
जीवनीयैः पचेत्कल्कैरक्षमात्रैर्घृताढकम् ॥ २४ ॥
सितापलानि पूते च शीते द्वात्रिंशतं क्षिपेत् ॥
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च ॥ २५ ॥
समाक्षिकं कौडविकं तत्सर्वं खजमूर्छितम् ॥
स्त्यानं सर्पिर्गुडान्कृत्वा भूर्जपत्रेण वेष्टयेत् ॥ २६ ॥
ताञ्जग्ध्वा पालिकान्क्षीरं मद्यं चानु पिबेत्कफे ॥
शोषे कासे क्षतक्षीणे श्रमस्त्रीभारकर्षिते ॥ २७ ॥
रक्तनिष्ठीवने तापे पीनसे चोरसः क्षते ॥
हिताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः ॥
द्रोणे वारिगुडे चास्मिन्नथ षोडशिकं जलम् ॥ २८ ॥
145
बिल्वाग्निमन्थश्योनाककाश्मर्यः पाटली बला ॥ २९ ॥
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ॥
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरुः ॥ ३० ॥
अभया चामृता ऋद्धिर्जीवकर्षभकौ शठी ॥
मुस्ता पुनर्नवा मेदा सूक्ष्मैलोत्पलचन्दनम् ॥ ३१ ॥
विदारी वृषमूलानि काकोली काकनासिका ॥
एषां पलोन्मितान्भागाञ्शतान्यामलकस्य च ॥ ३२ ॥
146
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ॥
ज्ञात्वा गतरसं द्रव्यं रसं गृह्णीत गालितम् ॥ ३३ ॥
तच्चाऽऽमलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ॥
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक् ॥ ३४ ॥
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत् ॥
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् ॥ ३५ ॥
चतुष्पलं तुगाक्षीर्याः पिप्पल्या द्विपलं तथा ॥
पलमेकं निदध्याच्च त्वगेलापत्रकेसरात् ॥ ३६ ॥
इत्ययं च्यवनप्राशः परमुक्तो रसायने ॥
कासश्वासहरश्चैव विशेषेणोपदिश्यते ॥ ३७ ॥
क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः ॥
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् ॥ ३८ ॥
पिपासां मूत्रशुक्रस्थान्दोषांश्चैवापकर्षति ॥
अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् ॥
च्यवनोऽस्य प्रयोगाच्च सुवृद्धोऽभूत्पुनर्युवा ॥ ३९ ॥
मेधां स्मृतिं कान्तिमनामयत्वमायुष्प्रकर्षं बलमिन्द्रियाणाम् ॥
स्त्रीषु प्रहर्षं परमाग्निदीप्तिं वर्णप्रसादं पवनानुलोम्यम् ॥ ४० ॥
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात् ॥
जराकृतं रूपमपास्य पूर्वं बिभर्ति रूपं नवयौवनानाम् ॥ ४१ ॥
केचिदिच्छन्ति मत्स्यण्ड्याः स्थाने तु सितशर्कराम् ॥
मृदुकल्कसमः पाको भृष्टधात्र्याः प्रशस्यते ॥ ४२ ॥
147
दशमूलीस्वयंगुप्ताशङ्खपुष्पीशठीबलाः ॥ ४३ ॥
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ॥
भार्ङ्गी पुष्करमूलं च द्विपलांशं यवाढकम् ॥ ४४ ॥
हरीतकीशतं चैव जले पञ्चाढके पचेत् ॥
यवैः स्विन्नैः कषायं तं पूतं तत्राभयाशतम् ॥ ४५ ॥
पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् ॥
तैलात्सपिप्पलीचूर्णात्सिद्धे शीते च माक्षिकात् ॥ ४६ ॥
कुडवं पलमानं च चातुर्जातं सुचूर्णितम् ॥
लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात् ॥ ४७ ॥
तद्वलीपलितं हन्याद्वर्णायुर्बलवर्धनम् ॥
पञ्च कासान्क्षयं श्वासं हिक्कां च विषमज्वरम् ॥ ४८ ॥
गुल्ममेहग्रहण्यर्शोहृद्रोगारुचिपीनसान् ॥
अगस्त्यभिहितं धन्यमिदं श्रेष्ठं रसायनम् ॥ ४९ ॥
यथोद्दिष्टगुणं कुर्वत्पित्तं च कुरुते यदि ॥
तदा सायं गुडो योज्य एष एवाल्पमात्रया ॥ ५० ॥
पादशेषे कषाये च स्विन्नास्तास्ता हरीतकीः ॥
भर्जिता घृततैलेन पचेदालोहितोदयात् ॥ ५१ ॥
148
जीवन्तीं कुटजं द्राक्षां फलानि कुटजस्य च ॥
शठीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम् ॥ ५२ ॥
नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् ॥
पिप्पलीं च समं पिष्ट्वा घृतं वैद्यो विपाचयेत् ॥ ५३ ॥
एतद्व्याधिसमूहस्य रोगेशस्य समुत्थितम् ॥
रूपमेकादशविधं सर्पिरुग्रं व्यपोहति ॥ ५४ ॥
149
पिप्पलीगुडसंसिद्धं छागक्षीरयुतं घृतम् ॥
एतदग्निविवृद्ध्यर्थं सर्पिश्च क्षयकासिनाम् ॥ ५५ ॥
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ॥
सयावशूकैः सक्षीरैः स्रोतसां शोधनं घृतम् ॥
[कल्कोऽत्र पादिकः कार्यः क्षीरं चापि चतुर्गुणम्] ॥ ५६ ॥
यष्टीबलागुडूच्यल्पपञ्चमूलीतुलां पचेत् ॥ ५७ ॥
शूर्पेऽपामष्टभागस्थे तत्र पात्रं पचेद्घृतम् ॥
धात्रीविदारीक्षुरसत्रिपात्रे पयसोऽर्मणे ॥ ५८ ॥
सुपिष्टैर्जीवनीयैश्च पाराशरमिदं घृतम् ॥
ससैन्यं राजयक्ष्माणमुन्मूलयति शीलितम् ॥ ५९ ॥
छागमांसतुलां गृह्य साधयेन्नल्वणेऽम्भसि ॥
पादशेषेण तेनैव सर्पिः प्रस्थं विपाचयेत् ॥ ६० ॥
ऋद्धिर्वृद्धिश्च मेदे द्वे जीवकर्षभकौ तथा ॥
काकोली क्षीरकाकोली कल्कैः पृथक्पलोन्मितैः ॥ ६१ ॥
सम्यक्सिद्धं च विज्ञाय शीते तस्मिन्प्रदापयेत् ॥
शर्करायाः पलान्यष्टौ मधुनः कुडवं क्षिपेत् ॥ ६२ ॥
150
पलं पलं पिबेत्प्रातर्यक्ष्माणं हन्ति दुस्तरम् ॥
क्षतक्षयं पञ्च कासान्पार्श्वशूलमरोचकम् ॥ ६३ ॥
स्वरक्षयमुरोरोगं श्वासं हन्यात्सुदारुणम् ॥
बल्यं मांसकरं वृष्यमग्निसंदीपनं परम् ॥ ६४ ॥
तोयद्रोणद्वितये मांसं छागस्य पलशतं पक्त्वा ॥
जलमष्टांशं सुकृतं तस्मिन्विपचेद्घृतप्रस्थम् ॥ ६५ ॥
कल्केन जीवनीयानां कुडवेन तु मांससर्पिरिदम् ॥
पित्तानिलं निहन्यात्तज्जानपि रसकयोजितं पीतम् ॥ ६६ ॥
कासश्वासावुग्रौ यक्ष्माणं पार्श्वहृद्रुजं घोराम् ॥
अध्वव्यवायशोषं शमयति नातःपरं किंचित् ॥ ६७ ॥
द्विपञ्चमूलस्य पचेत्कषाये प्रस्थद्वये मांसरसस्य चैके ॥
कल्कं बलायाः सुनियोज्य गर्भं सिद्धं पयःप्रस्थयुतं घृतं च ॥
सर्वाभिघातोत्थितयक्ष्मशूलक्षतक्षयं कासहरं प्रदिष्टम् ॥ ६८ ॥
बलां श्वदंष्ट्रां बृहतीं कलशीं धावनीं स्थिराम् ॥
निम्बं पर्पटकं मुस्तं त्रायमाणां दुरालभाम् ॥ ६९ ॥
कृत्वा कषायं पेष्यार्थं दद्यात्तामलकीं शठीम् ॥
द्राक्षां पुष्करमूलं च मेदामामलकानि च ॥ ७० ॥
घृतं पयसि तत्सिद्धं सर्पिर्ज्वरहरं परम् ॥
क्षयकासप्रशमनं शिरःपार्श्वरुजापहम् ॥ ७१ ॥
151
चन्दनाम्बुनखं वाप्यं यष्टीशैलेयपद्मकम् ॥ ७२ ॥
मञ्जिष्ठा सरलं दारु शठ्येलापूतिकेसरम् ॥
पत्रं चैलं मुरा मांसी कङ्कोलं वनिताऽम्बुदम् ॥ ७३ ॥
हरिद्रे सारिवे तिक्तालवङ्गागुरुकुङ्कुमम् ॥
त्वग्रेणुनलिका चैभिस्तैलं मस्तुचतुर्गुणम् ॥ ७४ ॥
लाक्षारससमं सिद्धं ग्रहघ्नं बलवर्धनम् ॥
अपस्मारज्वरोन्मादपापालक्ष्मीविनाशनम् ॥
आयुष्पुष्टिकरं चैव वशीकरणमुत्तमम् ॥ ७५ ॥
ज्वरसंतापदौर्बल्ये लाक्षातैलं प्रयोजयेत् ॥
बालरोगाधिकारोक्तं पारंपर्योपदेशतः ॥ ७६ ॥
बलाऽश्वगन्धा श्रीपर्णी बहुपत्री पुनर्नवा ॥
पयसा नित्यमभ्यस्ताः शमयन्ति क्षतक्षयम् ॥ ७७ ॥
इक्ष्वालिकाविश्वगन्धापद्मकेसरचन्दनैः ॥
घृतं पयोमधुयुतं संधानार्थं पिबेत्क्षयी ॥ ७८ ॥
152
घृतं बलानागबलार्जुनाम्बुसिद्धं सयष्टीमधुपादकल्कम् ॥
हृद्रोगशूलक्षतरक्तपित्तशोषानिलासृक्शमयत्युदीर्णम् ॥ ७९ ॥
हितमत्र विशेषेण खण्डकूष्माण्डसंज्ञितम् ॥ ८० ॥
शुक्रायत्तं बलं पुंसां मलायत्तं हि जीवितम् ॥
तस्माद्यत्नेन संरक्षेद्यक्ष्मिणो मलरेतसी ॥ ८१ ॥
नित्यं स्वदेहपूजी भक्तो भैषज्यदेवतागुरुषु ॥
छागं मांसपयोऽश्नञ्जीवति यक्ष्मी चिरं धृतिमान् ॥ ८२ ॥
उपद्रवांश्च स्वरवैकृतादीञ्जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ॥
शोकं स्त्रियः क्रोधमसूयनं च त्यजे-
दुदारान्विषयान्भजेच्च ॥
गुरून्द्विजातींस्त्रिदशांश्च पूजये-
त्कथाश्च पुण्याः शृणुयाद्द्विजेभ्यः ॥ ८३ ॥
कासातिसारपार्श्वार्तिस्वरभेदारुचिज्वरैः ॥
त्रिभिर्वा पीडितं लिङ्गैः श्वासकासासृगामयैः ॥ ८४ ॥
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम् ॥
स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ॥ ८५ ॥
153
परं दिनसहस्रं तु यदि जीवति मानवः ॥
सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः ॥ ८६ ॥