178
वटशृङ्गसितालोध्रं दाडिमं मधुकं मधु ॥
पिबेत्तण्डुलतोयेन च्छर्दितृष्णानिवारणम् ॥ १७ ॥
तालुशोषे पिबेत्सर्पिर्घृतमण्डमथापि वा ॥
मूर्छाछर्दितृषादाहस्त्रीमद्यश्रमकर्शिताः ॥
पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये ॥ १८ ॥
धान्याम्लं मुखवैरस्यमलदौर्गन्ध्यनाशनम् ॥
तदेवालवणं शीतं मुखशोषहरं परम् ॥ १९ ॥
कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः ॥
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति ॥ २० ॥
वटप्ररोहं मधुकुष्ठमुत्पलं सलाजचूर्णं गुटिकां प्रकल्पयेत् ॥
सुसंहिता सा वदनेन धारिता तृष्णां प्रवृद्धामपि हन्ति सत्वरम् ॥ २१ ॥
ओदनं रक्तशालीनां शीतं माक्षिकसंयुतम् ॥
भोजयेत्तेन शाम्येते छर्दितृष्णे चिरोत्थिते ॥ २२ ॥