179
तृष्यन्पूर्वामयक्षीणो न लभेत जलं यदि ॥
मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं नरः ॥ २३ ॥
सात्म्यान्नपानभैषज्यैस्तृष्णां तस्य जयेत्पुनः ॥
तस्यां जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम् ॥ २४ ॥
तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति ॥
तस्मात्सर्वास्ववस्थासु न क्वचिद्वारि वार्यते ॥ २५ ॥

Adhikāra 17

सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलाश्च ॥
शीतानि पानानि च गन्धवन्ति सर्वासु मूर्छास्वनिवारितानि ॥ १ ॥
सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च ॥
तथा यवा लोहितशालयश्च मूर्छासु शस्ताः ससतीनमुद्गाः ॥ २ ॥