Adhikāra 18

मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लिकदाडिमैः ॥
परूषकैः सामलकैर्युक्तो मद्यविकारनुत् ॥ १ ॥
सतीनमुद्गसंमिश्रान्दाडिमामलकान्वितान् ॥
द्राक्षामलकखर्जूरपरूषकरसेन वा ॥
कल्पयेत्तर्पणान्यूषान्रसांश्च विविधात्मकान् ॥ २ ॥
पथ्याक्वाथेन वा सिद्धं घृतं धात्रीरसेन वा ॥
सर्पिः कल्याणकं वाऽपि मदमूर्छापहं पिबेत् ॥ ३ ॥
छर्दिमूर्छातिसारं च मदं पूगफलोद्भवम् ॥
सद्यस्तच्छमयेत्पीतमातृप्तेर्वारि शीतलम् ॥ ४ ॥
182
वन्यकरीषघ्राणाज्जलपानाल्लवणभक्षणाद्वाऽपि ॥
शाम्यति पूगफलमदश्चूर्णरुजाशर्कराकवलात् ॥ ५ ॥
मद्यं सौवर्चलव्योषयुक्तं किंचिज्जलान्वितम् ॥
जीर्णमद्ये प्रदातव्यं वातपानात्ययापहम् ॥ ६ ॥
मुद्गयूषः सितायुक्तः स्वादुर्वा पैशितो रसः ॥
पित्तपानात्यये योज्याः सर्वतश्च क्रिया हिमाः ॥ ७ ॥
183
पानरोगे कफोद्भूते लङ्घनं च यथाबलम् ॥
दीपनीयौषधोपेतं पिबेन्मद्यं समाहितः ॥ ८ ॥
सर्वजे सर्वमेवेदं प्रयोक्तव्यं चिकित्सितम् ॥ ९ ॥
आभिः क्रियाभिः सिद्धाभिः शान्तिं याति मदात्ययः ॥ १० ॥
न चेन्मद्यक्रमं मुक्त्वा क्षीरमस्य प्रयोजयेत् ॥
लङ्घनाद्यैः कफे क्षीणे जाते दौर्बल्यलाघवे ॥ ११ ॥
ओजस्तुल्यगुणं क्षीरं विपरीतं च मद्यतः ॥
क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत् ॥ १२ ॥
पयःपुनर्नवाक्वाथयष्टीकल्कप्रसाधितम् ॥
घृतं पुष्टिकरं पानान्मद्यपानहतौजसाम् ॥ १३ ॥
सौवर्चलमजाज्यश्च वृक्षाम्लं साम्लवेतसम् ॥
त्वगेलामरिचार्धांशं शर्कराभागयोजितम् ॥ १४ ॥
एतल्लघणमष्टाङ्गमग्निसंदीपनं परम् ॥
मदात्यये कफप्राये दद्यात्स्रोतोविशोधनम् ॥ १५ ॥
चव्यं सौवर्चलं हिङ्गु पूरकं विश्वदीप्यकम् ॥
चूर्णं मद्येन पातव्यं पानात्ययरुजापहम् ॥ १६ ॥
184
जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम् ॥
पिबेत्सुरां नैव लभेत रोगान्मनोमतिघ्नं च मदं न याति ॥ १७ ॥
द्राक्षाकपित्थफलदाडिमपानकं यत्तत्पानविभ्रमहरं मधुशर्कराढ्यम् ॥ १८ ॥