182
वन्यकरीषघ्राणाज्जलपानाल्लवणभक्षणाद्वाऽपि ॥
शाम्यति पूगफलमदश्चूर्णरुजाशर्कराकवलात् ॥ ५ ॥
मद्यं सौवर्चलव्योषयुक्तं किंचिज्जलान्वितम् ॥
जीर्णमद्ये प्रदातव्यं वातपानात्ययापहम् ॥ ६ ॥
मुद्गयूषः सितायुक्तः स्वादुर्वा पैशितो रसः ॥
पित्तपानात्यये योज्याः सर्वतश्च क्रिया हिमाः ॥ ७ ॥