184
जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम् ॥
पिबेत्सुरां नैव लभेत रोगान्मनोमतिघ्नं च मदं न याति ॥ १७ ॥
द्राक्षाकपित्थफलदाडिमपानकं यत्तत्पानविभ्रमहरं मधुशर्कराढ्यम् ॥ १८ ॥

Adhikāra 19

शतधौतघृताभ्यक्तं लिह्यात्तं यवसक्तुभिः ॥
कोलामलकसंयुक्तैर्धान्याम्लैरपि बुद्धिमान् ॥ १ ॥
छादयेत्तस्य सर्वाङ्गमारनालार्द्रवाससा ॥
लामज्जेनाथ शुक्तेन चन्दनेनानुलेपयेत् ॥ २ ॥
चन्दनाम्बुकणस्यन्दितालवृन्तोपवीजिते ॥
स्वप्याद्दाहार्दितो जन्तुः कदलीदलसंस्तरे ॥ ३ ॥