192
सर्वतः शुद्धदेहस्य स्यादुन्मादहरा क्रिया ॥ २ ॥
मनोह्वातार्क्ष्यजं चैव शकृत्पारावतस्य च ॥
अञ्जनं हन्त्यपस्मारमुन्मादं च विशेषतः ॥ ३ ॥
यष्टीहिङ्गुवचावक्रशिरीषलशुनामयैः ॥
साजमूत्रैरपस्मारे सोन्मादे नावनाञ्जने ॥ ४ ॥
कपित्थाञ्शारदान्मुद्गान्मुस्तोशीरयवांस्तथा ॥
सव्योषान्बस्तमूत्रेण पिष्ट्वा वर्तीः प्रकल्पयेत् ॥ ५ ॥
अपस्मारे तथोन्मादे सर्पदष्टे गरार्दिते ॥
विषपीते जलमृते चैताः स्युरमृतोपमाः ॥ ६ ॥
पुष्योद्धृतं शुनः पित्तमपस्मारघ्नमञ्जनम् ॥
तदेव सर्पिषा युक्तं धूपनं परमं स्मृतम् ॥ ७ ॥