239
अलम्बुषा गोक्षुरकं शतपुष्पा पुनर्नवा ॥
प्रसारणी वरुणत्वक्शुण्ठी मदनमेव च ॥ ५१ ॥
सम्यक्पाकं च विज्ञाय सिद्धा तण्डुलमिश्रिता ॥
भृष्टा सर्षपतैलेन हिङ्गुसैन्धवसंयुता ॥ ५२ ॥
भक्षिता लवणोपेता जयेदामं महारुजम् ॥
एकजं द्वंद्वजं साध्यं सांनिपातिकमेव च ॥ ५३ ॥
कट्यूरुवातमानाहं जानुगं त्रिकमारुतम् ॥
उदावर्तहरा पेया बलवर्णाग्निकारिणी ॥ ५४ ॥
पलशतं रसोनस्य तिलस्य कुडवं तथा ॥
हिङ्गुत्रिकटुकं क्षारौ द्वौ पञ्च लवणानि च ॥ ५५ ॥
शतपुष्पा तथा कुष्ठं पिप्पली मूत्रचित्रकौ ॥
अजमोदा यवानी च धान्यकं चापि बुद्धिमान् ॥ ५६ ॥
प्रत्येकं च पलं चैषां श्लक्ष्णचूर्णानि कारयेत् ॥
घृतभाण्डे दृढे चैव स्थापयेद्दिनषोडश ॥ ५७ ॥
प्रक्षिप्य तैलमानीं च प्रस्थार्धं काञ्जिकस्य च ॥
खादेत्कर्षप्रमाणं तु तोयं मद्यं पिबेदनु ॥ ५८ ॥
आमवाते तथा वाते सर्वाङ्गैकाङ्गसंस्थिते ॥
अपस्मारेऽनले मन्दे कासे श्वासे गरेषु च ॥
सोन्मादे वातभग्ने च शूले जन्तुषु शस्यते ॥ ५९ ॥