275
त्रिदोषजे लङ्घनमादितः स्यादन्नं च सर्वेषु हितं विधेयम् ॥
हीनातिमध्यत्वमवेक्ष्य चैव कार्यं त्रयाणामपि कर्म शस्तम् ॥ ११ ॥
चूर्णं पुष्करजं लिह्यान्माक्षिकेण समायुतम् ॥
हृच्छूलश्वासकासघ्नं क्षयहिक्कानिवारणम् ॥ १२ ॥
तैलाज्यगुडविपक्वं चूर्णं गोधूमपार्थजं वाऽपि ॥
पिबति पयोऽनु च स भवेज्जितसकलहृदामयः पुरुषः ॥ १३ ॥
गोधूमककुभचूर्णं छागपयोगव्यसर्पिषा पक्वम् ॥
मधुशर्करासमेतं शमयति हृद्रोगमुद्धतं पुंसाम् ॥ १४ ॥
मूलं नागबलायास्तु चूर्णं दुग्धेन पाययेत् ॥
हृद्रोगकासश्वासघ्नं ककुभस्य च वल्कलम् ॥ १५ ॥
रसायनं परं बल्यं वातजिन्मासयोजितम् ॥
संवत्सरप्रयोगेण जीवेद्वर्षशतं ध्रुवम् ॥ १६ ॥
हिङ्गूग्रगन्धाबिडविश्वकृष्णाकुष्ठाभयाचित्रकयावशूकम् ॥
पिबेत्ससौवर्चलपौष्कराढ्यं यवाम्भसा शूलहृदामयघ्नम् ॥ १७ ॥
दशमूलकषायं तु लवणक्षारयोजितम् ॥
श्वासकासं सहृद्रोगं गुल्मशूलं च नाशयेत् ॥ १८ ॥