283
जले कुङ्कुमकल्कं वा सक्षौद्रमुषितं निशि ॥
सतैलं पाटलाभस्म क्षारवद्वा परिस्रुतम् ॥ ४ ॥
कल्कमीर्वारुबीजानामक्षमात्रं ससैन्धवम् ॥
धान्याम्लयुक्तं पीत्वैव मूत्राघाताद्विमुच्यते ॥ ५ ॥
सुरां सौवर्चलवतीं मूत्राघाती पिबेन्नरः ॥ ६ ॥
दाडिमाम्बुयुतं मुख्यमेलाबीजं सनागरम् ॥
पीत्वा सुरां सलवणां मूत्राघाताद्विमुच्यते ॥ ७ ॥
पिबेच्छिलाजतु क्वाथे गणे वीरतरादिके ॥
रसं दुरालभाया वा कषायं वासकस्य वा ॥ ८ ॥
त्रिकण्टकैरण्डशतावरीभिः सिद्धं षयो वा तृणपञ्चमूले ॥
गुडप्रगाढं सघृतं पयो वा रोगेषु कृच्छ्रादिषु शस्तमेतत् ॥ ९ ॥
शृतशीतपयोन्नाशी चन्दनं तण्डुलाम्बुना ॥
पिबेत्सशर्करं श्रेष्ठमुष्णवाते सशोणिते ॥ १० ॥
स्त्रीणामतिप्रसङ्गेन शोणितं यस्य सिच्यते ॥
मैथुनोपरमश्चास्य बृंहणीयो हितो विधिः ॥
ताम्रचूडवसातैलं हितं चोत्तरबस्तिषु ॥ ११ ॥