304
शिरीषलामज्जकहेमरोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः ॥
पत्राम्बुलोहाभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः ॥ १७ ॥
वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः ॥
बिल्वपत्ररसो वाऽपि गात्रदौर्गन्ध्यनाशनः ॥ १८ ॥
हरीतकी लोध्रमरिष्टपत्रं चूतत्वचो दाडिमवल्कलं च ॥
एषोऽङ्गरागः कथितोऽङ्गनानां जङ्घाकषायश्च नराधिपानाम् ॥ १९ ॥
गोमूत्रपिष्टं विनिहन्ति कुष्ठं वर्णोज्ज्वलं गोपयसा च युक्तम् ॥
कक्षादिदौर्गन्ध्यहरं पयोभिः शस्तं वशीकृद्रजनीद्वयेन ॥ २० ॥
व्योषाग्निमुस्तत्रिफलाविडङ्गैर्गुग्गुलुं समम् ॥
खादन्सर्वाञ्जयेद्व्याधीन्मेदःश्लेष्मामवातजान् ॥ २१ ॥

Adhikāra 37