302
पुराणाः शालयो मुद्गाः कुलत्थोद्दालकोद्रवाः ॥
लेखना बस्तयश्चैव सेव्या मेदस्विना सदा ॥ १ ॥
चिन्ता क्रोधस्तथा धूमो व्यायामो रक्तमोक्षणम् ॥
उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः ॥
निद्राप्रसङ्गमहितं वारयन्ति समुत्थितम् ॥ २ ॥
व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः ॥
संतर्पणकृतैर्दोषैर्लौल्यं मुक्त्वा विमुच्यते ॥ ३ ॥
श्रमचिन्ताव्यवायाध्वक्षौद्रजागरणप्रियः ॥
हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनम् ॥ ४ ॥
प्रातर्मधुयुतं वारि सेवितं स्थौल्यनाशनम् ॥ ५ ॥
विडङ्गनागरक्षारकाललोहरजो मधु ॥
यवामलकचूर्णं तु योगोऽतिस्थौल्यनाशनः ॥
उष्णमन्नस्य मण्डं वा पिबेत्कृशतनुर्भवेत् ॥ ६ ॥