Adhikāra 37
305रक्तशालिर्यवा मुद्गा जाङ्गलाश्च रसा हिताः ॥
	विरेकास्थापनं शस्तं सर्वेषु जठरेषु च ॥ १ ॥
                                                            वातोदरं बलवतः स्नेहस्वेदैरुपाचरेत् ॥
	स्निग्धाय स्वेदिताङ्गाय दद्यात्स्नेहविरेचनम् ॥ २ ॥
                                                            सुविरक्तो नरो यस्तु पुनराध्माति तं भिषक् ॥
	सुस्निग्धैरम्ललवणैर्निरूहैः समुपाचरेत् ॥ ३ ॥
                                                            सामुद्रसौवर्चलसैन्धवानि क्षारं यवानामजमोदकं च ॥
	सपिप्पलीचित्रकशृङ्गवेरं हिङ्गुर्विडं चेति समानि दद्यात् ॥ ४ ॥
                                                            एतानि चूर्णानि घृतप्लुतानि भुञ्जीत पूर्वं कवलं प्रशस्तम् ॥
	वातोदरं गुल्ममजीर्णभुक्तं वातप्रकोपं ग्रहणीं च दुष्टाम् ॥
	अर्शांसि कुष्ठानि च पाण्डुरोगं भगंदरांश्चेति निहन्ति सद्यः ॥ ५ ॥
                                                            वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् ॥
	306 
	शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ॥ ६ ॥
                                                            यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरी ॥
	संनिपातोदरी तक्रं त्रिकटुक्षारसैन्धवैः ॥ ७ ॥
                                                            स्नुहीपयोभावितानां पिप्पलीनां पयोशनः ॥
	सहस्रमुपयुञ्जीत शक्तितो जठरामयी ॥ ८ ॥
                                                            शिलाजतूनां मूत्राणां गुग्गुलोस्त्रैफलस्य च ॥
	स्नुहीक्षीरप्रयोगश्च शमयत्युदरामयम् ॥ ९ ॥
                                                            स्नुक्पयसा परिभाविततण्डुलचूर्णैर्विनिर्मितः पूपः ॥
	उदरमुदारं हिंस्याद्योगोऽयं सप्तरात्रेण ॥ १० ॥
                                                            पिप्पलीवर्धमानं वा कल्पदृष्टं प्रयोजयेत् ॥
	जठराणां विनाशाय नास्ति तेन समं भुवि ॥ ११ ॥
                                                            दशमूलदारुनागरच्छिन्नरुहापुनर्नवाभयाक्वाथः ॥
	जयति जलोदरशोथश्लीपदगलगण्डवातरोगांश्च ॥ १२ ॥
                                                            पटोलमूलं रजनीं विडङ्गं त्रिफलात्वचम् ॥ १३ ॥
                                                            कम्पिल्लकं नीलिनीं च त्रिवृतां चेति चूर्णयेत् ॥
	षडाद्यान्कार्षिकानन्त्यांस्त्रींश्च द्वित्रिचतुर्गुणान् ॥ १४ ॥
                                                            कृत्वा चूर्णं तु तां मुष्टिं गवां मूत्रेण ना पिबेत् ॥
	विरिक्तो जाङ्गलरसैर्भुञ्जीत मृदुमोदनम् ॥ १५ ॥
                                                            मण्डं पेयां च पीत्वा वा सव्योषं षडहं पयः ॥
	शृतं पिबेत्ततश्चूर्णं पिबेदेवं पुनः पुनः ॥ १६ ॥
                                                            हन्ति सर्वोदराण्येतच्चूर्णं जातोदकानि च ॥
	कामलां पाण्डुरोगं च श्वयथुं चापकर्षति ॥ १७ ॥
                                                            यवानी हपुषा धान्यं त्रिफला सोपकुञ्चिका ॥
	कारवी पिप्पलीमूलमजगन्धा शठी वचा ॥ १८ ॥
                                                            शताह्वा जीरकं व्योषं स्वर्णक्षीरी सचित्रका ॥
	द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ॥ १९ ॥
                                                            विडङ्गं च समांशानि दन्त्या भागत्रयं तथा ॥
	त्रिवृद्विशाले द्विगुणे सातला स्याच्चतुर्गुणा ॥ २० ॥
                                                            एष नारायणो नाम चूर्णो रोगगणापहः ॥
	नैनं प्राप्यातिवर्तन्ते रोगा विष्णुमिवासुराः ॥ २१ ॥
                                                            तक्रेणोदरिभिः पेयो गुल्मिभिर्बदराम्बुना ॥
	आनाहवाते सुरया वातरोगे प्रसन्नया ॥ २२ ॥
                                                            दधिमण्डेन विद्ध(द्धा)ङ्गे दाडिमाम्बुभिरर्शसि ॥
	परिकर्ते सवृक्षाम्लैरुष्णाम्बुभिरजीर्णके ॥ २३ ॥
                                                            भगंदरे पाण्डुरोगे कासे श्वासे गलग्रहे ॥
	हृद्रोगे ग्रहणीदोषे कुष्ठे मन्दानले ज्वरे ॥ २४ ॥
                                                            दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे ॥
	यथार्हस्निग्धकोष्ठेन पेयमेतद्विरेचनम् ॥ २५ ॥
                                                            पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ॥
	सक्षारैरर्धपलिकैर्द्विः प्रस्थं सर्पिषः पचेत् ॥ २६ ॥
                                                            कल्कैर्द्विपञ्चमूलस्य तुलार्धस्य रसेन तु ॥
	दधिमण्डाढकं दत्त्वा तत्सर्पिर्जठरापहम् ॥
	श्वयथुं वातविष्टम्भं गुल्मार्शांसि च नाशयेत् ॥ २७ ॥
                                                            चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात्पले ॥
	कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत् ॥ २८ ॥
                                                            नागरं त्रिपलं प्रस्थं घृततैलं तथाऽऽढकम् ॥ २९ ॥
                                                            मस्तुनः साधयित्वा च पिबेत्सर्वोदरापहम् ॥
	कफमारुतसंभूते गुल्मे चैतत्प्रशस्यते ॥ ३० ॥
                                                            अर्कक्षीरपले द्वे तु स्नुहीक्षीरपलानि षट् ॥
	पथ्या कम्पिल्लकं श्यामा शम्याकं गिरिकर्णिका ॥ ३१ ॥
                                                            नीलिनी त्रिवृता दन्ती शङ्खिनी चित्रकं तथा ॥
	एतेषां पलिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ ३२ ॥
                                                            अथास्य मलिने कोष्ठे बिन्दुमात्रां प्रदापयेत् ॥
	यावतोऽस्य पिबेद्बिन्दूंस्तावद्वेगाद्विरिच्यते ॥ ३३ ॥
                                                            कुष्ठं गुल्ममुदावर्तं श्वयथुं सभगंदरम् ॥
	शमयत्युदराण्यष्टौ वृक्षमिन्द्राशनिर्यथा ॥ ३४ ॥
                                                            एतद्बिन्दुघृतं नाम्ना येनाभ्यक्तो विरिच्यते ॥
	मूत्राण्यष्टावुदरिणां पाने सेके प्रयोजयेत् ॥ ३५ ॥
                                                            देवद्रुमं शिग्रुमयूरकं च गोमूत्रपिष्टामथवाऽश्वगन्धाम् ॥
	पीत्वाऽऽशु हन्यादुदरं प्रवृद्धं कृमीनशेषानुदरं च दूष्यम् ॥ ३६ ॥
                                                            स्नुक्क्षीरदन्तीत्रिफलाविडङ्गसिंहीत्रिवृच्चित्रककर्षकल्कैः ॥
	घृतं विपक्वं कुडवप्रमाणं तोयेन तस्याक्षमपार्धकर्षम् ॥ ३७ ॥
                                                            पीत्वोष्णमम्भोऽनुपिबेद्विरिक्ते पेयां सुखोष्णां वितरेद्विधिज्ञः ॥
	नाराचमेतज्जठरामयानां युक्त्योपयुक्तं शमनं प्रदिष्टम् ॥ ३८ ॥
                                                            यवानिकाचित्रकयावशूकषड्ग्रन्थिदन्तीमगधोद्भवानाम् ॥
	प्लीहानमेतद्विनिहन्ति चूर्णमुष्णाम्बुना मस्तुसुरासवैर्वा ॥ ३९ ॥
                                                            पलाशक्षारतोयेन पिप्पली भाविता शुभा ॥
	गुल्मप्लीहार्तिशमनी अग्निदीप्तिकरी स्मृता ॥ ४० ॥
                                                            विडङ्गार्काग्निसिन्धूत्थसक्तून्दग्ध्वा वचान्वितान् ॥
	पिबेत्क्षीरेण संचूर्ण्य गुल्मप्लीहोदरापहान् ॥ ४१ ॥
                                                            क्षारं वा बिडकृष्णाभ्यां पूतिकस्याम्लनिःस्रुतम् ॥
	प्लीहयकृत्प्रशान्त्यर्थं पिबेत्प्रातर्यथाबलम् ॥ ४२ ॥
                                                            अर्कपत्रं सलवणमन्तर्धूमं विदाहयेत् ॥
	मस्तुना वा पिबेत्क्षारं प्लीहरोगं व्यपोहति ॥ ४३ ॥
                                                            पातव्यो युक्तितः क्षारः क्षीरेणोदधिशुक्तिजः ॥
	पयसा वा प्रयोक्तव्याः पिप्पल्यः प्लीहशान्तये ॥ ४४ ॥
                                                            भल्लातकाभयाजाजीगुडेन सह मोदकः ॥
	सप्तरात्रान्निहन्त्येष प्लीहानमपि दारुणम् ॥ ४५ ॥
                                                            सौभाञ्जनकनिर्यूहं सैन्धवाग्निकणान्वितम् ॥
	पलाशक्षारयुक्तं वा यवक्षारं प्रयोजयेत् ॥ ४६ ॥
                                                            तिलान्सलवणांश्चैव घृतं षट्पलकं तथा ॥
	प्लीहोद्दिष्टां क्रियां सर्वां यकृतः संप्रकल्पयेत् ॥ ४७ ॥
                                                            लशुनं पिप्पलीमूलमभयां चैव भक्षयेत् ॥
	पिबेद्गोमूत्रगण्डूषं प्लीहरोगविमुक्तये ॥ ४८ ॥
                                                            शरपुङ्खायाः कल्कस्तक्रेण निषेवतो यथाग्निबलम् ॥
	यदि न जयेत्प्लीहानं शैलोऽपि तदा जले प्लवते ॥ ४९ ॥
                                                            शार्ङ्गे(र्ङ्गी)ष्टानिर्यूहः ससैन्धवस्तिन्तिडीकसंमिश्रः ॥
	प्लीहव्युपरमयोगः पक्वाम्ररसोऽथ वा समधुः ॥ ५० ॥
                                                            रोहितकाभयाक्षोदभावितं मूत्रमम्बु वा ॥
	पीतं सर्वोदरप्लीहमेहार्शःकृमिगुल्मनुत् ॥ ५१ ॥
                                                            दध्ना भुक्तवतो वामबाहुमध्ये शिरां भिषक् ॥
	विध्येत्प्लीहविनाशाय यकृन्नाशाय दक्षिणे ॥ ५२ ॥
                                                            प्लीहानं मर्दयेद्गाढं दुष्टरक्तप्रवृत्तये ॥ ५३ ॥
                                                            निकुम्भकुडवक्वाथप्रस्थे तत्कल्कसंयुतम् ॥
	सर्पिः प्रस्थं पचेत्प्लीहकामलापाण्डुरोगनुत् ॥ ५४ ॥
                                                            चित्रकस्य तुलाक्वाथे घृतप्रस्थं विपाचयेत् ॥
	आरनालं तु द्विगुणं दधिमण्डं चतुर्गुणम् ॥
	पञ्चकोलकतालीसक्षारैर्लवणसंयुतैः ॥ ५५ ॥
                                                            द्विजीरकं निशायुग्मं मरिचं तत्र दापयेत् ॥
	प्लीहगुल्मोदराध्मानपाण्डुरोगारुचिज्वरान् ॥ ५६ ॥
                                                            बस्तिहृत्पार्श्वकट्यूरुशूलोदावर्तपीनसान् ॥
	हन्यात्पीतं तदर्शोघ्नं शोफघ्नं वह्निदीपनम् ॥
	बलवर्णकरं चापि भस्मकं च नियच्छति ॥ ५७ ॥
                                                            पिप्पलीकल्कसंयुक्तं घृतं क्षीरचतुर्गुणम् ॥
	पचेत्प्लीहाग्निसादादियकृद्रोगहरं परम् ॥ ५८ ॥
                                                            रोहितकत्वचः श्रेष्ठाः पलानां पञ्चविंशतिः ॥
	कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत् ॥ ५९ ॥
                                                            पलिकैः पञ्चकोलैश्च तैः सर्वैश्चापि तुल्यया ॥
	रोहितकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत् ॥ ६० ॥
                                                            प्लीहातिवृद्धिं शमयेदेतदाशु प्रयोजितम् ॥
	तथा गुल्मज्वरश्वासकृमिपाण्डुत्वकामलाः ॥ ६१ ॥
                                                            रोहितकात्पलशतं क्षोदयेद्बदराढकम् ॥ ६२ ॥
                                                            साधयित्वा जलद्रोणे चतुर्भागावशेषितम् ॥
	घृतप्रस्थं समावाप्य च्छागक्षीरं चतुर्गुणम् ॥ ६३ ॥
                                                            तस्मिन्दद्यादिमान्कल्कान्सर्वांस्तानक्षसंमितान् ॥
	व्योषं फलत्रिकं हिङ्गु यवानीं तुम्बरुं बिडम् ॥ ६४ ॥
                                                            अजाजीं कृष्णलवणं दाडिमं देवदारु च ॥
	पुनर्नवां विशालां च यवक्षारं सपौष्करम् ॥ ६५ ॥
                                                            विडङ्गं चित्रकं चैव हपुषां चबिकां वचाम् ॥
	एतैर्घृतं विपक्वं तत्स्थापयेद्भाजने शुभे ॥ ६६ ॥
                                                            पाययेत्त्रिपलां मात्रां व्याधेर्बलमपेक्ष्य च ॥
	रसकेनाथ यूषेण पयसा वाऽपि भोजयेत् ॥ ६७ ॥
                                                            उपयुक्ते घृते तस्मिन्व्याधीन्हन्यादिमान्बहून् ॥
	यकृत्प्लीहोदरं चैव प्लीहशूलं यकृत्तथा ॥ ६८ ॥
                                                            कुक्षिशूलं हृदि शूलं पार्श्वशूलमरोचकम् ॥
	विबन्धशूलं शमयेत्पाण्डुरोगं सकामलम् ॥ ६९ ॥
                                                            छर्द्यतीसारशमनं तन्द्राज्वरविनाशनम् ॥
	महारोहितकं नाम प्लीहघ्नं श्रेष्ठमौषधम् ॥ ७० ॥
                                                            