319
शोथे विषनिमित्ते तु विषोक्ता शस्यते क्रिया ॥ १९ ॥
पुनर्नवाचित्रकदेवदारुपञ्चोषणक्षारहरीतकीनाम् ॥
कल्केन पक्वं दशमूलतोये घृतोत्तमं शोथनिषूदनं च ॥ २० ॥
रसे विपाचयेत्सर्पिः पञ्चकोलकुलत्थयोः ॥
पुनर्नवायाः कल्केन घृतं शोथविनाशनम् ॥ २१ ॥
सचित्रका धान्ययवानिपाठाः
सदीप्यकास्त्र्यूषणवेतसाम्लाः ॥
बिल्वात्फलं दाडिमयावशूकं
सपिप्पलीमूलमथापि चव्यम् ॥ २२ ॥
पिष्ट्वाऽक्षमात्राणि जलाढकेन
पक्त्वा घृतप्रस्थमथोपयोज्यम् ॥
अर्शांसि गुल्मं श्वयथुं च कृत्स्नं
निहन्ति वह्निं च करोति दीप्तम् ॥ २३ ॥
क्षीरं घटे चित्रककल्कलिप्ते दध्यागतं साधु विमथ्य तेन ॥
तज्जं घृतं चित्रकमूलगर्भं तक्रेण सिद्धं श्वयथुघ्नमग्त्यम् ॥
अर्शोतिसारानिलगुल्ममेहांस्तद्धन्ति संवर्धयते च वह्निम् ॥ २४ ॥
माणकक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत् ॥
एकजं द्वंद्वजं शोथं त्रिदोषं च व्यपोहति ॥ २५ ॥