321
दशमूलकषायस्य कंसे पथ्याशतं पचेत् ॥
तुलां गुडाद्धनव्योषयवक्षारचतुष्पलम् ॥ ३४ ॥
त्रिजातकं सुवर्णांशं प्रस्थार्धं मधुनो हिमे ॥ ३५ ॥
दशमूलहरीतक्यः शोथान्हन्युः सुदुर्जयान् ॥
ज्वरारोचकमेहार्शःकुष्ठपाण्डूदरामयान् ॥ ३६ ॥
पुनर्नवामृतादारुदशमूलजलाढके ॥
आर्द्रकस्वरसप्रस्थे गुडस्य तु तुलां पचेत् ॥ ३७ ॥
तत्सिद्धं व्योषपत्रैलात्वक्चव्यैः कार्षिकैः पृथक् ॥
चूर्णीकृतैः क्षिपेच्छीते मधुनः कुडवं लिहेत् ॥ ३८ ॥
लेहः पौनर्नवो नाम शोथशूलनिषूदनः ॥
कासश्वासारुचिहरो बलवर्णाग्निवर्धनः ॥ ३९ ॥
पिष्टान्नमम्लं लवणानि मद्यं मृदं दिवा स्वप्नमजाङ्गलं च ॥
स्त्रियो घृतं तैलपयोगुरूणि शोफं जिघांसुः परिवर्जयेच्च ॥ ४० ॥
ग्राम्याजानूपपिशितलवणं शुष्कशाकं नवान्नं
गौडं पिष्टान्नं दधि च कृशरं विज्जलं मद्यमम्लम् ॥
धानावल्लूरं समशनमथो गुर्वसात्म्यं विदाहि
स्वप्नं चारात्रौ श्वयथुगदवान्वर्जयेन्मैथुनं च ॥ ४१ ॥

Adhikāra 44