Adhikāra 41

326
यवमुद्गपटोलादि कटुरूक्षं च भोजनम् ॥
छर्दि सरक्तमुक्तिं च गलगण्डे प्रयोजयेत् ॥ १ ॥
निचुलं शिग्रुबीजानि दशमूलमथापि वा ॥
आलेपनं वातगण्डे सुखोष्णं संप्रशस्यते ॥ २ ॥
देवदारुविशाले च कफगण्डे प्रलेपनम् ॥
तण्डुलोदकपिष्टेन मूलेन परिलेपितः ॥
हस्तिकर्णपलाशस्य गलगण्डः प्रशाम्यति ॥ ३ ॥
सर्षपाञ्शिग्रुबीजानि शणबीजातसीयवान् ॥
मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत् ॥ ४ ॥
गण्डानि ग्रन्थयश्चैव गण्डमालाः समुत्थिताः ॥
प्रलेपात्तेन शाम्यन्ति विलयं यान्ति वाऽचिरात् ॥ ५ ॥
जीर्णकर्कारुकरसं बिडसैन्धवसंयुतम् ॥
नस्येन हन्ति तरुणं गलगण्डं न संशयः ॥ ६ ॥
जलकुम्भीकजं भस्म पक्वं गोमूत्रगालितम् ॥
पिबेत्कोद्रवतक्राशी गलगण्डोपशान्तये ॥ ७ ॥
327
महिषीमूत्रविमिश्रं लोहमलं संस्थितं घटे मासम् ॥
अन्तर्धूमविदग्धं लिह्यान्मधुनाऽथ गलगण्डे ॥ ८ ॥
सूर्यावर्तरसोनाभ्यां गलगण्डोपनाहनम् ॥
स्फोटास्रावैः शमं याति गलगण्डो न संशयः ॥ ९ ॥
तैलं पिबेच्चामृतवल्लिनिम्बहंसाह्वयावृक्षकपिप्पलीभिः ॥
सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे ॥ १० ॥
जिह्वायाः पार्श्वतोऽधस्ताच्छिरा द्वादश कीर्तिताः ॥ ११ ॥
तासां स्थूलशिरे कृष्णे छिन्द्यात्ते च शनैः शनैः ॥
बडिशेनैव संगृह्य कुशपत्रेण बुद्धिमान् ॥ १२ ॥
स्रुते रक्ते व्रणे तस्मिन्दद्यात्सगुडमार्द्रकम् ॥
भोजनं चानभिष्यन्दि यूषः कौलत्थ इष्यते ॥ १३ ॥
कर्णयुग्मबहिःसंधिमध्याभ्यासे स्थितं च यत् ॥
उपर्युपरि तच्छिन्द्याद्गलगण्डे शिरात्रयम् ॥ १४ ॥
विडङ्गक्षारसिन्धूग्रारास्नाग्निव्योषदारुभिः ॥
कटुतुम्बीफलरसे कटुतैलं विपाचितम् ॥
चिरोत्थमपि नस्येन गलगण्डं विनाशयेत् ॥ १५ ॥
विडङ्गानलसिन्धूत्थरास्नोग्राक्षारदारुभिः ॥ १६ ॥
तैलं चतुर्गुणे सिद्धं कटुतुम्बीरसेऽथ तत् ॥
गण्डमालाहरं श्रेष्ठं गलगण्डहरं परम् ॥ १७ ॥
328
माक्षिकाढ्यः सकृत्पीतः क्वाथो वरुणमूलजः ॥
गण्डमालां निहन्त्याशु चिरकालानुबन्धिनीम् ॥ १८ ॥
पिष्ट्वा ज्येष्ठाम्बुना पेयाः काञ्चनारत्वचः शुभाः ॥
विश्वभेषजसंयुक्ता गण्डमालापहाः पराः ॥ १९ ॥
अलम्बुषादलोद्भूतात्स्वरसाद्द्वे पले पिबेत् ॥
अपच्या गण्डमालायाः कामलायाश्च नाशने ॥ २० ॥
वनकार्पासिकामूलं तण्डुलैः सह योजितम् ॥
पक्त्वा पुपूलिकां खादेदपचीनाशनाय च ॥ २१ ॥
सौभाञ्जनं देवदारु काञ्जिकेन तु पेषितम् ॥
कोष्णं प्रलेपनं हन्यादपचीमतिदुस्तराम् ॥ २२ ॥
आरग्वधशिफां क्षिप्रं सम्यक्तण्डुलवारिणा ॥
पिष्ट्वा नस्यप्रलेपाभ्यां गण्डमालां समुद्धरेत् ॥ २३ ॥
गण्डमालामयार्तानां नस्यकर्मणि योजयेत् ॥
निर्गुण्ड्यास्तु शिफां सम्यग्वारिणा परिपेषिताम् ॥ २४ ॥
कोशातकीनां स्वरसेन नस्यं तुम्ब्यास्तथा पिप्पलिसंयुतेन ॥
तैलेन वाऽरिष्टभवेन कुर्याद्वचोपकुल्ये सह माक्षिकेण ॥ २५ ॥
ग्रन्थिष्वामेषु कुर्वीत भिषक्शोथप्रतिक्रियाम् ॥
पक्वानापीड्य संशोध्य रोपयेद्व्रणभेषजैः ॥ २६ ॥
329
हिंस्रा सरोहिण्यमृताऽथ भार्गी श्योनाकबिल्वागुरुकृष्णगन्धाः ॥
गोपित्तपिष्टाः सह तालपत्र्या ग्रन्थौ विधेयोऽनिलजे प्रलेपः ॥ २७ ॥
जलौकसः पित्तकृते हितास्तु क्षीरोदकाभ्यां परिषेचनं च ॥
काकोलिवर्गस्य च शीतलानि पिबेत्कषायाणि सशर्कराणि ॥ २८ ॥
द्राक्षारसेनेक्षुरसेन वाऽपि चूर्णं पिबेद्वाऽपि हरीतकीनाम् ॥
मधूकजम्ब्वर्जुनवेतसानां त्वग्भिः प्रलेपानवचारयेद्वा ॥ २९ ॥
हृतेषु दोषेषु यथानुपूर्व्या ग्रन्थौ भिषक्श्लेष्मसमुत्थिते तु ॥
स्विन्नस्य विम्लापनमेव कुर्यादङ्गुष्ठवेणूदृषदीसुतैस्तु ॥ ३० ॥
विकङ्कतारग्वधकाकणन्तीकाकादनीतापसवृक्षमूलैः ॥
आलेपयेदेनमलाबुभार्गीकरञ्जकालामदनैश्च विद्वान् ॥ ३१ ॥
दन्ती चित्रकमूलत्वक्सौधार्कपयसी गुडः ॥
भल्लातकास्थि कासीसं लेपो भिन्द्याच्छिलामपि ॥ ३२ ॥
330
ग्रन्थीनमर्मप्रभवानपक्वानुद्धृत्य चाग्निं विदधीत वैद्यः ॥
क्षारेण चैतान्प्रतिसारयेत्तु संलिख्य संलिख्य यथोपदेशम् ॥ ३३ ॥
ग्रन्थ्यर्बुदानां च यतोऽविशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः ॥
ततश्चिकित्सेद्भिषगर्बुदानि विधानविद्ग्रन्थिचिकित्सितेन ॥ ३४ ॥
वातार्बुदे चाप्युपनाहनानि स्निग्धैश्च मांसैरथ वेसवारैः ॥
स्वेदं विदध्यात्कुशलस्तु नाड्या शृङ्गेण रक्तं बहुशो हरेच्च ॥ ३५ ॥
स्वेदोपनाहा मृदवस्तु पथ्याः पित्तार्बुदे कायविरेचनं च ॥
विघृष्य चोदुम्बरशाकगोजीपत्रैर्भृशं क्षौद्रयुतैः प्रलेपः ॥
श्लक्ष्णीकृतैः सर्जरसप्रियंगुपत्राङ्गलोध्रार्जुनयष्टिसाह्वैः ॥ ३६ ॥
331
लेपनं शङ्खचूर्णेन सह मूलकभस्मना ॥
कफार्बुदापहं कुर्याद्ग्रन्थ्यादिषु विशेषतः ॥ ३७ ॥
निष्पावपिण्याककुलत्थकल्कैर्मांसप्रगाढैर्दधिमर्दितैश्च ॥ ३८ ॥
लेपं विदध्यात्क्रिमयो यथाऽत्र मुञ्चन्त्यपत्यान्यथ मक्षिका वा ॥
अल्पावशिष्टं क्रिमिभिः प्रजग्धं लिखेत्ततोऽग्निं विदधीत पश्चात् ॥ ३९ ॥
यदल्पमूलं त्रपुताम्रसीसैः संवेष्ट्य पत्रैरथ वाऽऽयसैर्वा ॥
क्षाराग्निशस्त्राण्यवचारयेच्च मुहुर्मुहुः प्राणमवेक्षमाणः ॥ ४० ॥
यदृच्छया चोपगतानि पाकं पाकक्रमेणोपचरेद्यथोक्तम् ॥
सशेषदोषाणि हि योऽर्बुदानि करोति तस्याऽऽशु पुनर्भवन्ति ॥
तस्मादशेषाणि समुद्धरेत्तु हन्युः सशेषाणि यथा विषाग्नी ॥ ४१ ॥
उपोदकारसाभ्यक्तास्तत्पत्रपरिवेष्टिताः ॥
प्रणश्यन्त्यचिरान्नॄणां पिटकार्बुदजातयः ॥ ४२ ॥
उपोदका काञ्जिकतक्रपिष्टा तयोपनाहो लवणेन मिश्रः ॥
दृष्टोऽर्बुदानां प्रशमाय कैश्चिद्दिने दिने रात्रिषु मर्मजानाम् ॥ ४३ ॥
332
स्नुहीगण्डीरिकास्वेदो नाशयेदर्बुदानि च ॥
लवणेनाथ वा स्वेदः सीसकेन तथैव च ॥ ४४ ॥
हरिद्रालोध्रपत्राङ्गगृहधूममनःशिलाः ॥
मधुप्रगाढो लेपोऽयं मेदोर्बुदहरः परः ॥ ४५ ॥
एतामेव क्रियां कुर्यादशेषां शर्करार्बुदे ॥ ४६ ॥
सर्षपारिष्टपत्राणि दग्ध्वा भल्लातकैः सह ॥
छागमूत्रेण संपिष्टमपचीघ्नं प्रलेपनम् ॥ ४७ ॥
अश्वत्थकाण्डं निचुलं गवां दन्तं च दाहयेत् ॥
सप्ताहमलसंयुक्तं भस्म हन्त्यपचीं क्षणात् ॥ ४८ ॥
पार्ष्णिं प्रति द्वादश चाङ्गुलानि
मित्वेन्द्रबस्तिं परिवर्ज्य सम्यक् ॥
विदार्य मत्स्याण्डनिभानि वैद्यो
निष्कृष्य जालान्यनलं विदध्यात् ॥ ४९ ॥
333

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

334
मणिबन्धोपरिष्टाद्वा कुर्याद्रेषात्रयं भिषक् ॥
अङ्गुलान्तरितं सम्यगपचीनां प्रशान्तये ॥ ५० ॥
335
गण्डमालापहं तैलं सिद्धं शाखोटकत्वचा ॥
बिम्ब्यश्वमारनिर्गुण्डीसाधितं वाऽपि नावनम् ॥ ५१ ॥
निर्गुण्डीस्वरसेनाथ लाङ्गलीमूलकल्कितम् ॥
तैलं नस्यान्निहन्त्याशु गण्डमालां सुदुस्तराम् ॥ ५२ ॥
छुच्छुन्दर्या विपक्वं तु क्षणात्तैलवरं ध्रुवम् ॥
अभ्यङ्गान्नाशयेन्नॄणां गण्डमालां सुदारुणाम् ॥ ५३ ॥
चन्दनं साभया लाक्षा वचा कटुकरोहिणी ॥
एतैस्तैलं शृतं पीतं समूलामपचीं जयेत् ॥ ५४ ॥
व्योषं विडङ्गं मधुकं सैन्धवं देवदारु च ॥
तैलमेभिः शृतं नस्यात्कृच्छ्रामप्यपचीं हरेत् ॥ ५५ ॥