340
स्वेदोपनाहाः कर्तव्याः शिग्रुमूलसमन्विताः ॥
यवगोधूममुद्गैश्च सिद्धपिष्टैः प्रलेपयेत् ॥
विलीयते क्षणेनैवमपक्वश्चैव विद्रधिः ॥ ३ ॥
पुनर्नवादारुविश्वदशमूलाभयाम्भसा ॥
गुग्गुलं रुबुतैलं वा पिबेन्मारुतविद्रधौ ॥ ४ ॥
पैत्तिकं शर्करालाजामधुकैः सारिवायुतैः ॥
प्रदिह्यात्क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः ॥ ५ ॥
पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काज्यसंयुतम् ॥ ६ ॥
पञ्चवल्कलकल्केन घृतमिश्रेण लेपनम् ॥
इष्टकासिकतालोहैर्गोशकृत्तुषपांशुभिः ॥
मूत्रपिष्टैश्च सततं स्वेदयेच्छ्लेष्मविद्रधिम् ॥ ७ ॥
दशमूलीकषायेण सस्नेहेन रसेन वा ॥
शोथं व्रणं वा कोष्णेन सशूलं परिषेचयेत् ॥ ८ ॥
पित्तविद्रधिवत्सर्वां क्रियां निरवशेषतः ॥
विद्रध्योः कुशलः कुर्याद्रक्तागन्तुनिमित्तयोः ॥ ९ ॥
सौभाञ्जनकनिर्यूहो हिङ्गुसैन्धवसंयुतः ॥
अचिराद्विद्रधिं हन्ति प्रातः प्रातर्निषेवितः ॥ १० ॥
शिग्रुमूलं जले धौतं जलपिष्टं प्रगालयेत् ॥
तद्रसं मधुना पीत्वा हन्त्यन्तर्विद्रधिं नरः ॥ ११ ॥