342
मातुलुङ्गाग्निमन्थौ च सुरदारु महौषधम् ॥
अहिंस्रा चैव रास्ना च प्रलेपो वातशोथजित् ॥ ३ ॥
कल्कः काञ्जिकसंपिष्टः स्निग्धः शाखोटकत्वचः ॥
सुपर्ण इव नागानां वातशोथविनाशनः ॥ ४ ॥
दूर्वा च नलमूलं च मधुकं चन्दनं तथा ॥
शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोथहा ॥ ५ ॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः ॥
ससर्पिष्कैः प्रलेपः स्याच्छोथनिर्वापणः परः ॥ ६ ॥
अजगन्धाऽश्वगन्धा च काला सरलया सह ॥
एकैषिकाऽजशृङ्गी च प्रलेपः श्लेष्मशोथहा ॥ ७ ॥