357
अवनामितमुन्नह्येदुन्नतं चावपीडयेत् ॥
आञ्छेदतिक्षिप्तमधोगतं चोपरि वर्तयेत् ॥ २ ॥
आलेपनार्थं मञ्जिष्ठा मधुकं चाम्लपेषितम् ॥
शतधौतघृतोन्मिश्रं शालिपिष्टं च लेपनम् ॥
न्यग्रोधादिकषायं तु सुशीतं परिषेचने ॥ ३ ॥
पञ्चमूलीविपक्वं तु क्षीरं दद्यात्सवेदने ॥
सुखोष्णमवचार्यं वा चक्रतैलं विजानता ॥ ४ ॥
मांसं मांसरसः क्षीरं सर्पिर्यूषः सतीनजः ॥
बृंहणं चान्नपानं स्याद्देयं भग्नाय जानता ॥ ५ ॥