118 इत्यत्राह--तन्नाम इत्यादि । यस्य ना1744म्ना योजनात् मृतिस्मृत्यादयः तत् तन्नाम इत्युच्यते, तस्य
स्मृतेरयोगात् । एतदुक्तं भवति--न यत्र यत्र स्वार्थः तत्र तत्र तन्नाम, यतः तद्योजनात् निय
मेन मतिस्मृत्यादयः स्युः अपि तु सङ्केतस्य योजनात्, तत्स्मृतेरेव च अयोगात् प्रकृतमिति । कुत
एतत् ? इत्यत्राह--अनवस्थानादेः अनवस्थानम्आदिर्यस्य अन्योन्यसंश्रयस्य स तथोक्तः तस्मात् ।
तथाहि--प्रथमा नामस्मृतिः तद्विषयाभिधानस्मृतेः, सापि तद्विषयनामस्मृतेः इत्यनवस्था । सन्नि
हिते च वस्तुनि मत्यादिना निर्णीते नामविशेषे स्मृतिः, तस्याश्च सत्यादिः 1745 इत्य
न्योऽन्यसमाश्रयः । अत एव अप्रतिपत्तिः प्रतिपत्तेरभावः, अन्धमूकं जगत् स्यादिति मन्यते ।
चर्चितं चैतत्--सदृशार्थाभिलापादिस्मृतिः सिद्धिवि॰ १ । ८ इत्यादिना ।


एवं तावत् प्रमाणस्य फलं साक्षात् सिद्धिः स्वार्थवि निश्चयः सिद्धि
वि॰ १ । ३
इत्यस्य समर्थनद्वारेण अधिगतिः तत्फलम् इत्येतन्निरस्तम् । इदानीम्
सारूप्यं प्रमाणम् न्यायबि॰ १ । २० इत्येतत् प्रकारान्तरेण दूषयन्नाह--प्रत्यक्षाः
इत्यादि ।


प्रत्यक्षाः परमाणवो बहिरिमे स्थूलैकचित्राकृतेः,

संवित्तेर्विषया इति प्रलपता स्याद्वादविद्वेषिणा ।

बुद्धेनालमलं बहिरन्तर्वाऽश्लीलमेवाकुलम्,

तन्नैरात्म्यमपीतरेण न विवेकात्मा न सा युज्यते ॥ २८ ॥

विषयो द्विविधो बौद्धस्य1746 प्रत्यक्षः अनुमेयश्च । तत्र प्रत्यक्षः 1747 सन्तो विषया
गोचराः । के ? इत्याह--परमाणवः । क्व ? बहिरिति । के पुनस्ते ? इत्याह--१०० क इमे
परिदृश्यमानघटादिव्यपदेशभाजः । कस्याः ? इत्यत्राह--संवित्तेः । कथम्भूतायाः ? इत्याह—
स्थूलैकचित्राकृतेः स्थूला एका चित्रा शबला आकृतिः आकारो यस्याः सा तथोक्तः 1748 तस्याः सञ्चितालम्बनाः पञ्च विज्ञानकायाः इति1749 राद्धान्तात् । प्रलपता अलम् ।
केन ? बुद्धेन इतर 1750 केन ? दि ग्ना गा दि ना । कथं प्रलपता ? अश्लीलमेव
असम्बद्धमेव यथा भवति आकुलं च । अपिशब्दः भिन्नप्रक्रमः अत्र द्रष्टव्यः च शब्दार्थः ।
कथंभूतेन ? इत्यत्राह--स्याद्वादविद्वेषिणा । एतदुक्तं भवति--यथा नीलाकृतेः संवित्तेः नीलं
प्रत्यक्षं न पीतादि, सारूप्यकल्पनावैफल्यभयात् तथा स्थूलैकचित्राकृतेः1751स्याः प्रत्यक्षो
विषयोऽपि तथाविध1752 एव कल्पनीयो न परमाणवः इति ।


यत्पुनरत्रोक्तं प्र ज्ञा क र गु प्ते न--तथाविधायाः तथाविधविषयसिद्धिः दूरस्थित
विरलकेशेषु अतदात्मसु तथाविधायाः तस्याः दर्शनात् ।
1753इति; तत्र न तर्हि परमाणवः
तस्याः प्रत्यक्षः1754 सन्तो विषयाः किन्तु अनुमेयाः, इतरथा दूरस्थितविरलकेशा अपि अनेक

  1. वाचकेन शब्देन ।

  2. मत्यादिः
  3. न प्रत्यक्षपरोक्षाभ्यां मेयस्यान्यस्य संभवः ।--प्र॰ वा॰ २ । ६३ ।

  4. क्षाः
  5. क्ता
  6. पञ्चसञ्चयस्यालम्बात्--प्र॰ समु॰ १ । १७ ।

  7. इतरेण
  8. संवित्तेः ।

  9. स्थूलैकचित्राकार एव ।

  10. यथैव केशा दवीयसि देशे असंसक्ता अपि घनसन्निवेशावभासिनः परमाणवोऽपि तथेति न विरोधः ।--प्र॰
    वार्तिकाल॰ पृ॰ २९६, पृ॰ ९४ ।

  11. क्षाः