119
संवित्तेर्विषयाः तथा इति न भ्रान्तं नाम किञ्चित्, यन्निरासार्थम् 1755अभ्रान्तग्रहणं क्रियमाणमर्थ
वत् स्यात् । अथ तत्केशानां विरलनाननुकरणेऽपि कृष्णतामात्रानुकरणवत् परमाणूनामन्योन्य
विवेकाननुकरणेऽपि नीलतामात्रानुकरणात् ते1756 प्रत्यक्षा इति; तर्हि एकस्य गृहीतेतररूपतया अने
कान्तसिद्धिः ऐति 1757 १०० ख स्याद्वादविद्वेषिणा अलम् अलम् इति । न
तत्त्वतः तस्याः ते1758 प्रत्यक्षं क्षाः किन्तु व्यवहारेणेति चेत्; उक्तमत्र नीलाकारसंवित्तेः नील
वत् तस्या अपि स्थूलैकचित्रार्थप्रत्यक्षताप्रसङ्गादिति ।
किंच, संवित्तिवद् एकस्य स्थूलैकचित्राकारोऽपि न विरुध्यते इति, एवमर्थं च स्थूलैक
चित्राकृतेः इति वचनम् । तर्हि प्रतिपरमाणुभेदात् संवित्तिरपि तथाविधा मा भूत् । तदुक्तम्--
प्र॰ वा॰ २ । २१० इत्यादि ।
इति चेत्; अत्राह--न सापि इत्यादि । न केवलं बहिरर्थोऽपितु साऽपि संवित्तिरपि
विवेकात्मा न न युज्यते युज्येतैव, प्रतिषेधद्वयेन प्रकृतार्थगतेः, इतरथा उक्तन्यायेन
सकलशून्यता स्यादिति मन्यते । सैवास्तु इति चेत्; अत्राह--तन्नैरात्म्यम् इत्यादि । यत
एवं तस्मात् नैरात्म्यं सकलशून्यत्वं बहिरन्तर्वा इति एवं प्रलपता इत्यादिना
सम्बन्धः । स्याद्वादमन्तरेण तदप्रतिपत्तेरिति भावः । छ ॥
इति श्री र वि भ द्र पादोपजीवि-अ न न्त वी र्य विरचितायां सि द्धि
वि नि श्च य टी का यां प्रत्यक्षसिद्धिः प्रथमः प्रस्तावः । छ ॥