द्वितीयः प्रस्तावः
२ सविकल्पसिद्धिः
अक्षज्ञानैःसिद्धिवि॰ १ । २७ इत्यादिना उक्तमर्थम् इतरग्रन्थेन समर्थयितु
कामः तदादौ संग्रहवृत्तत्रयं स्वार्थ इत्यादिकमाह--
अस्याऽयमर्थः--स्वं च अर्थश्च तयोः ग्राहकोऽवग्रहः स्वार्थाऽवग्रहः स्वार्थावग्रहश्च
नि पूर्वाद् इणः क्ति1759 शति 1760 भवति, अन्यस्याऽप्रकृतत्वात्, प्रत्यासत्तेश्च अवग्रहेण
नीतम् १०१ क अवगतम् इति गम्यते । तत्र 1761भेदवचनसान्निध्यात् द्विविधं सामान्यम्
इति च, तस्य भेदो विशेषो विषयः यस्या आकाङ्क्षाया ईहायाः सा तथोक्ता, ता
वात्मानौ स्वभावौ यस्याः सा तदात्मिकेयं मतिः । किं करोति ? इत्यत्राह--संस्कारतां याति
धारणात्मिका भवति । किं कृत्वा ? इत्यत्राह--भेदावायमुपेत्य उपढौक्य निर्णयमयं तदा
त्मिका भूता इत्यर्थः । अतः अस्याः मतेः परम् अन्यद् अस्पष्टज्ञानं श्रुतम् श्रुतमस्पष्ट
तर्कणम् त॰ श्लो॰ पृ॰ २३७ 1762इति वचनात् । तत्कथं जायते ? इत्यत्राह--स्मृत1763
इत्यादि । अतः इत्येतद् अनेनापि सम्बध्यते--ततो मतेः स्मृतिः, तया स्मृत्या कारण
भूतया प्रत्यभिज्ञान1764ता तदेवेदं तेन सदृशम् इति वा प्रत्यभिज्ञावता पुरुषेण ऊह
विषयाद् हेतोः लिङ्गाद् अनुमा कल्प्या । कथम्भूता ? अशब्दा 1765 स्वार्था
नुमा इत्यर्थः । अस्या नामान्तरमाह--आभिनिबोधिकी इति । अभि समन्ताद् अर्थस्य सामा
न्यरूपेणेव विशेषरूपेणापि निश्चितो बोधो ग्रहणम् तत्र नियुक्ता न पुनः सामान्यापोहमात्रग्रहण1766
इति मन्यते । अथवा, पूर्वज्ञानापेक्षया कथञ्चिदति1767नवस्य अपूर्वस्यार्थस्य ग्रहणम् अभि
निबोधः तत्र नियुक्ता मतिपूर्वं श्रुतम् त॰ सू॰ १ । २० इ1768ति वचनात् । मतेः स्मृतिः,
ततः प्रत्यभिज्ञा, अत ऊहः, अस्माद् अशाब्दानुमा श्रुतम् इत्युक्तं भवति । अपिशब्दो भिन्न
प्रक्रमः श्रुतमतः इत्यस्याऽनन्तरं द्रष्टव्यः । अतोऽपि परं शाब्दयोजितं ज्ञानं श्रुतम् इति ।
स्यान्मत1769म्--दर्शनम्1770, अतश्च भेदनिश्चय1771 इति किं १०१ ख तदन्तराले आकाङ्क्षया
इति ? तत्रोत्तरमाह--वैशद्यम् इत्यादि ।
-
भूतकालार्थे क्ते प्रत्यये सति ।
↩ - क्ते सति↩
-
षष्ठ्या विग्रहे सति इत्यर्थः ।
↩ -
उद्धृतमिदम्--न्याय
↩
वि॰ वि॰ द्वि॰ पृ॰ १८७, ३६० । श्रुतमविस्पष्टतर्कणम्--न्यायकुमु॰ पृ॰ ४०४ । - त्या↩
- व↩
- अशाब्दा↩
-
यथा बौद्धानाम्
↩
अनुमानं सामान्यविषयं न तथा । - भि↩
-
श्रुतं मतिपूर्वं द्व्यनेकद्वादशभेदम्--त॰ सू॰ ।
↩ -
बौद्धः प्राह ।
↩ -
निर्विकल्पकम् ।
↩ -
विकल्पः ।
↩