171

2359 अथ मतम्--सामान्यसमवायानवस्था अथ मतम्--सामान्यसमवायानामपि सत्तासम्ब
न्धे; द्रव्यादिवदपरसामान्यसम्बन्धः स्यात्, न चैवमिति । अयमपि 2360परस्यैव दोषोऽस्तु न जैनस्य,
तेन क्वचिदन्यतस्तत्त्वानभ्युपगमात् । कुत एतत् ? इत्यत्राह--सामान्य इत्यादि । सामान्य
तद्वतोः
जातितद्वतोः तादात्म्यं कथञ्चिदेकत्वं युक्तम् उपपन्नं यत इति ।


एवं तावद् द्रव्यादिभ्यो भिन्नं सामान्यं निराकृत्य सांप्रतं तत्सम्बन्धं निराकुर्वन्नाह—
समवायस्य इत्यादि । ननु सोऽपि समवायानवस्थानुषङ्गात् इत्यनेन निरस्तः; सत्यम्;
तथापि परतो जात्यादीनां तत्त्वे निरस्ते इदानीमन्यथापि निराक्रियत इति विशेषः । अत्र 2361परस्य
अनेकं दर्शनम्--स्वत एव समवायिषु समवायो वर्त्तते इत्येकम्2362१४३ क विशेषणीभाव
सम्बन्धात्
इत्यपरम्2363न वर्त्तते इत्यन्यत् । तदेतद् दर्शनत्रयं चेतसि व्यवस्याप्य प्रथमे तावद्
दूषणं योजयति--समवायस्य समवायान्तराभावेऽपि स्वत एव इति यावत्, वृत्तौ समवा
यिषु वर्त्तते 2364 अङ्गीक्रियमाणे किं पुनः इतरेषां द्रव्यादीनां तथैव येनैव प्रकारेण सम
वायस्य तेनैव2365 वृत्तिर्न स्यात् ? स्यादेव । तथा च किं समवायकल्पनयेति भावः । अत्रैव दूष
णान्तरमाह--न च इत्यादि । न च इह विषाणादिषु गौः शाखादिषु वृक्षः इत्येवं प्रतीतिर्बुद्धिः
स्याद् भवेत्, समवायस्य कार्यत्वेन सम्बन्धिनी इति सम्बन्धः । एवं मन्यते इह विषाणा
दिषु गौः शाखादिषु वृक्षः
इति बुद्धेः समवायः साध्यते तत्कार्यभूतायाः, यदा तु समवायः
स्वत एव क्वचिद् वर्तते तह 2366 समवायो वर्त्तते इति बुद्धिर्न समवायनिमित्ता यथा तथा
2367प्रकृतापि इति, अनेन तद्धेतोर्व्यभिचार उक्तः । द्वितीये समवायस्य समवायान्तराभावे अपि
शब्दाद् अन्यस्य विशेषणीभावसम्बन्धस्य भावे वृत्तौ किं पुनः इतरेषां द्रव्यादीनां तथैव
समवायाद् वृत्तिर्नस्यात् ? स्यादेव, इति समवायतद्द्रव्यादीनामपि क्वचिद् वृत्तौ विशेषणीभाव
सम्बन्ध इति मन्यते । दूषणान्तरमाह--न चेह इत्यादि । पूर्ववद् व्याख्यानम् । अयं तु विशेषः
इह समवायो वर्त्तते इत्यस्याः प्रतीतेः यथा विशेषणीभावः कारणारथा 2368 2369अन्यस्या अपि इति । अथवा, विशेषणीभावः १४३ ख सम्बन्धो यदि सम्बन्धान्तरं 2370 स्वसम्बन्धिषु वर्तते; तह नि 2371वस्थानात् नचेत्यादि दूषणम् । अथ स्वतः; समवायोऽ
पि 2372तथैव वर्तते इति समवायस्य इत्यादि तदवस्थम् । यदि पुनः, न ते समवाये तथा प्रसङ्गः
इति कुतः 2373ततः इहेदम् इति प्रतीतिः ? तृतीयेऽपि समवायस्य तदन्तराभावे, अपिशब्दो
भिन्नप्रक्रमः वृत्तौ इत्यस्य अनन्तरं द्रष्टव्यः । ततोऽयमर्थः--वृत्तावपि, अपि शब्दाच्च 2374वृत्तौ
किं पुनः समवायेन इति विभक्तिपरिणामेन सम्बन्धः । कुत एतत् ? अत्राह--इतरेषां द्रव्या

  1. एतच्चिह्नान्तर्गतः पाठः पुनर्लिखितः ।

  2. वैशेषिकस्यैव ।

  3. वैशेषिकस्य ।

  4. अविभागिनो वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति तस्मात् स्वात्मवृत्तिः ।--प्रश॰ भा॰ पृ॰
    ३२९ ।

  5. समवाये अभावे च विशेषणविशेष्यभावादिति--न्यायवा॰ १ । १ । ४ तस्माद् विना
    सम्बन्धान्तरं विशेषणविशेष्यभाव एषितव्य इति सिद्धम्
    --न्यायवा॰ ता॰ टी॰ पृ॰ १११ ।

  6. वर्तने
  7. स्वत
    एव ।

  8. तर्हि
  9. इह शाखादिषु वृक्षः इत्यादि बुद्धिरपि ।

  10. कारणं तथा
  11. इह शाखादिषु वृक्षः इत्यादि प्रतीतेरपि ।

  12. न्तरेण
  13. तदाऽन
  14. स्वत एव ।

  15. समवायात् ।

  16. च्चाऽ