172 दीनां तथैव वृत्तिर्न स्यात् । न खलु इदमनु2375वर्त्तते इत्येतत् 2376तदसम्बन्धाद् युज्यते;
यतः कुतश्चित् तदनुषङ्गात् । सम्बन्धात् स्यात् इति चेत्; कुतः सम्बन्धः2377 समवायः, सम्बन्धा
सम्बन्धाद् 2378गगनादिवत्2379 ? दूषणान्तरमाह--न चेह इत्यादि । अत्रायमर्थः—
यत एव न द्रव्यादीनां क्वचिद् वृत्तिः अत एव तत्प्रतीतिरपि न स्यादिति, 2380अन्यथा ईश्वरादेरेव
स्यात् । कथं वा कस्यचित् प्रत्यक्षः समवायः इन्द्रियार्थसन्निकर्षाभावात् ? सर्वथापि 2381 तत्प्रत्यक्षत्वे अलं चक्षुषोऽर्थेन सन्निकर्षसाधनेन ?


अनेन यदुक्तं परेण2383--सर्वस्य सामान्यस्य सर्वगतत्वे समवायस्य च गोत्वादिप्रत्यय
साङ्कर्यमिति
दधि खादेति चोदितः उष्ट्रमपि धावेत् प्र॰ वा॰ ३ । १८३ 2384इत्यत्र
चोद्ये प्रत्युत्तरम्--सम्बन्धस्यापिवि2385शेषेऽपि न सम्बन्धिनः सः2386, नहि कुण्डबदरयोः
संयोगो यथा कुण्डेबदरे चवर्त्तते2387 तथा 2388बदरमपि
इति तद् दूषयन्नाह--१४४ क
सामान्य इत्यादि । इदमत्र तात्पर्यम्--सर्वसर्वगते सामान्ये इदं प्रत्युत्तरम्, व्यक्तिसर्वगते वा ?
प्रथमपक्षे सामान्यसमवाययोर्व्यापित्वेऽपि क्वचिदेव द्रव्यत्वस्य पृथिव्यादिषु एव गुणत्वस्य
रूपादिष्वेव कर्मत्वस्य गमनादिष्वेव समीहितप्रत्ययहेतुत्वं द्रव्यादिप्रतीतिनिमित्तत्वं नान्यत्र
इत्येवं वैचित्र्य
स्य तयोः2389 2390समर्थेतरस्वभावभेदेन शबलत्वस्य संभवे अङ्गीक्रियमाणे द्रव्यमेव
सामान्यविशेषात्मकं चित्रं भवितुमर्हति । एवं मन्यते 2391तयोर्व्यापित्वपक्षे नेदं प्रत्युत्तरम्—
सम्बन्धस्याऽविशेषेऽपि तं 2392 सम्बन्धिनः सः इति; सम्बन्धवत् सम्बन्धिनोऽपि
सामान्यस्याविशेषात्, इदं तु युक्तम्--तदविशेषेस्वा 2393त्मभूतकार्यजननशक्तिविशेषः2394
इति । 2395तत्र च सर्वत्रानेकान्तसिद्धिः । द्वितीये पक्षे2396 स्वविशेषव्यापित्वं देशादिभिन्नानेकस्वाकार
व्यापित्वं निरंशनिष्क्रियात्मनः सामान्यस्य समवायस्य च कथं केन प्रकारेण स्वस्थः
पिशाचाद्यनुपहतः प्रस्थापयेत् । ननु 2397तथाविधस्यापि सर्वात्मना स्वावारेषु 2398 वृत्तेः
तत्तस्य स प्रस्थापयेदिति चेत्; अत्राह--द्रव्य इत्यादि । द्रव्यादिषु प्रत्याधारं तस्य भेदात्
स्वरूपहानेः कथं प्रस्थापयेत्
इति ? यत एवं तत् तस्मात् एतत् प्रस्तुतप्रस्तावव्यवस्थाप्य
मानं प्रत्यक्षं द्रव्यपर्यायात्ममेव । यदि वा, एतत् विचार्यमाणं वस्तु प्रत्यक्षं तत्परिच्छेद्यं
द्रव्यपर्यायात्मकमेव युक्तम् इति ।


  1. मत्र
  2. समवाय्यसम्बद्धात् समवायात् ।

  3. तुलना--इत्ययुक्तः स सम्बन्धो न युक्तः समवा
    निभिः ।
    आप्तमी॰ श्लो॰ ६४ ।

  4. सम्बन्ध्यसम्बद्धत्वात्
  5. नहि स्वसम्बिन्धिभिः असम्बद्धः कश्चित् सम्बन्धो भवितुमर्हति ।

  6. वृत्त्यभावेऽपि तत्प्रतीतौ ईश्वरकालादेरेव सा प्रतीतिर्भवतु इति दोषः ।

  7. 2381
  8. सन्निकर्षाभावेऽपि ।

  9. अन्यथा
    पि
  10. सन्निकर्षाभावेऽपि ।

  11. वैशेषिकेण ।

  12. चोदितो दधि खादेति किमुष्ट्रं नाभिधावति ।प्र॰ वा॰ इति बौद्धस्य प्रश्ने ।

  13. स्यावि
  14. अविशेषः, येन दध्याख्यः सम्बन्धी उष्ट्ररूपः स्यात् ।

  15. उभयनिष्ठत्वात् संयोगस्य ।

  16. बदराख्यं
    द्रव्यमुभयनिष्ठं न हि भवितुमर्हति ।

  17. सामान्यसमवाययोः ।

  18. क्वचिदेव समीहितप्रत्ययहेतुतया
    सामर्थ्यमन्यत्र तु असामर्थ्यमिति स्वभावभेदेन । यद्यपि अपरिच्छिन्नदेशानि सामान्यानि भवन्ति
    तथाप्युपलक्षणनियमात् कारणसामग्रीनियमाच्च स्वविषयसर्वगतानि
    पृ॰ ३१४ यथा कुण्डदध्नोः
    संयोगैकत्वे भवत्याश्रयाश्रयिभावनियमः तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदाद्
    आधाराधेयनियमः ।
    --प्रश॰ भा॰ पू॰ ३२७ ।

  19. सामान्यसमवाययोः ।

  20. षेऽप्या
  21. स्वभावभूतशक्तिभेदः ।

  22. स्वभावभूतशक्तिविशेषस्वीकारे च ।

  23. स्वव्यक्तिसर्वगतत्वपक्षे ।

  24. निरंशस्य निष्क्रियस्यापि ।

  25. स्वाकारेषु