अन्यथानुपपन्नत्वम् इत्यादिकम्, अन्यच्च 2399 स्वलक्षणादर्शनम्, वैशे
षिकस्यापि 2401भागिनो2402 १४४ ख वर्त्तननिषेधं च दर्शयन्नाह—प्रत्यक्षम् इत्यादि ।
अन्तम् 2403 अपि शब्दो भिन्नप्रक्रमः प्रत्यक्षम् इत्यस्यानन्तरं द्रष्टव्यः । प्रत्य
क्षमपि द्रव्यं घटादि परोक्षं दृश्येतरात्मकं यतः ततो गुणपर्यायात्मकम् इति । कुत
एतत् ? इत्यत्राह--स्वतः स्वरूपेण सिद्धस्य निश्चितस्य द्रव्यस्य अनुमितेः अनुमेयत्वाद्
अन्यथा सर्वो हेतुः आश्रयासिद्धः स्यात् । न चैतदिष्यते परेण ।
ननु यदि त2404त्सिद्धं कथमनुमेयमिति चेत् ? अत्राह--फलोपजननशक्त्याद्यात्मना । नहि
व्यक्तिवत् शक्तिरपि तस्य2405 प्रत्यक्षा; त2406दनुमानवैफल्यप्रसङ्गात्, तथा व्यवहाराभावाच्च । यदि पुनः
सौगतस्येव नैयायिकस्यापि अविकल्पं दर्शनं ततोऽयमदोषः इति; तदपि नोत्तरम्; सौगतेन
सहाय2407स्मै जलाञ्जलेर्दानात् । निश्चिते च न विभ्रमभाव इत्युक्तम् । तन्न शक्तिः प्रत्यक्षा ।
नापि शक्तिवद् व्यक्तिरपि परोक्षा; सर्वस्य आन्ध्यप्राप्तेः प्रमाणविरोधात् । एवमपि व्यक्ति
शक्त्योरभेदे न त2408तो गुणपर्यायात्मकं तदिति चेत्; न प्र2409त्यक्षेतरैकान्तः स्यात् । भेदादिति चेत्;
कथं द्रव्यस्य शक्तिः इति व्यपदेशः अतिप्रसङ्गात्2410 ? तत्र समवायात्; न; 2411अस्य निषेधात् ।
इहेतिप्रत्ययहेतुः समवायस्य शक्तिः यदि 2412ततो भिन्ना; कथं तस्य इति व्यपदिश्यतां समवायान्त
राभावात् ? चर्चितमेतदिति यत्किञ्चिदेतत् ।
तं प्रति दूषणान्तरमाह--सामान्यादेकान्तः 2413 ।
सामान्यादि एकान्तेन विविक्तं भिन्नम् ? कुतः ? अर्थसमवायादेः १४५ क
अर्थात् द्रव्यादेः समवायाद् आदिशब्दाद् अन्त्यविशेषात् । समवायादिग्रहणं दृष्टान्ता
र्थम् । यथा 2414तस्य सामान्यादि ततो विविक्तमदृश्यम् हि यस्मात्् तस्माद् असत् तथा
2415अस्यापि इति । तथा च प्रयोगः--यद् यद्रूपतया कालत्रयेऽपि न प्रतीयते न तत् तद्रूपतया
सत् यथा आत्मादि पुद्गलरूपतया कालत्रयेऽपि अप्रतीयमानम्, तद्रूपतया असत्त्वेन प्रतीयते
च एकान्तेन अर्थसमवायादेः विविक्तं सामान्यादि इति । अत्रैव दूषणान्तरमाह--प्रत्येकम्
इत्यादि । सामान्यादि एकमेकं प्रत्येकं समवायिषु मध्ये । कथम्भूतेषु ? द्विबहुषु द्वयोः पर
माण्वादिद्रव्ययोः कार्य2416द्रव्यादि वर्त्तत इति द्विग्रहणं स्वंशैः स्वैकदेशैः सर्वात्मना
सर्वस्वभावेन न वर्त्तते इत्युपस्कारः । चर्चिमेतत् ॥ छ ॥
इति र वि भ द्र पादोपजीव्य न न्त वी र्य विरचितायां सि द्धि वि नि श्च य टी का यां
सविकल्पकसिद्धिः द्वितीयः प्रस्तावः ॥ छ ॥
- अन्य2399
बौद्धस्य ।
↩ -
बौद्धस्य ।
↩ - स्यावि↩
-
निरंशस्य वृत्तिप्रतिषेधम् ।
↩ - अत्र↩
-
द्रव्यम् ।
↩ -
द्रव्यस्य ।
↩ -
शक्त्यनुमान ।
↩ - न्य↩
-
व्यक्तिशक्त्यात्मकत्वात् ।
↩ -
अभेदे सति व्यक्तिः प्रत्यक्षा शक्तिः परोक्षेति द्वयात्मकता न
↩
स्यादिति भावः । -
घटस्यापि पटः स्यात् ।
↩ -
समवायस्य ।
↩ -
समवायात् ।
↩ - सामान्ये इत्यादि↩
-
समवायादेः ।
↩ -
द्रव्यादेरपि ।
↩ - कार्यं↩