175
नीलादिर्ग्राह्यादृश्याकारैः 2426 चित्रा सदला 2427 भा प्रतीतिर्यस्य
तत्तथोक्तम्, चित्रमेकं यदि तदपि न विरहितम् १४६ क किन्तु सहितम् । कैः ?
पर्यायैः 2428 क्रमपरिणामैः एकम् अभिन्नम् उक्तन्यायेन ईयुः सौगताः अवगच्छेयुः यदि
इत्यनेनैतद्दर्शयति । तदनवगमे सकलशून्यता स्यादिति तदवगन्तव्यमिति । ततो निराकृतमेतत्
यदुक्तं परेण--अनुभूते स्मरणम् इत्येतन्नानुभवेन ज्ञायते तेन2429 स्मरणाऽविषयीकरणे,2430
नानेन2431 अनुभवस्यापरिच्छेदात् । इत्यादि2432 । तद् इदम् इति स्मरणप्रत्यक्षे लेखक 2433
व्यतिरेकेण नापरं 2434प्रत्यभिज्ञानम्, 2435तदभावे न तर्कोऽपि इति कथमुक्तम् प्रतिपत्त्या बाध
नात् ? किं कारयत् तत्तथा यदि ? इत्याह--बहिः इत्यादि । बहिः स्वतः अन्यत्र अनुगम
यतु2436 ज्ञापयतु2437 । किम् ? इत्याह--द्रव्य इत्यादि । यथैव हि तदेकं चित्राह 2438
मात्मानं बिभर्त्ति तथैव तथाविधं बहिर्गमयति । तथा च यदुक्तं परेण2439--स्मरणविषयस्य क्षणिक
त्वेन नाशात् प्रत्यभिज्ञागोचरस्य अभावात् न प्रवृत्तौ प्राप्तिर्यतः तदविसंवादः इति;
तदनेन निरस्तम् । ततः स्थितम्--यदि 2440तथाविधं चित्तं तर्हि सम्यक् सामान्यसंविदिति ।
तदेवं स्मरणादेः अविसंवादे सिद्धे यदपरं सिद्धं तद्दर्शयन्नाह--प्रमाणम् इत्यादि ।
प्रत्यक्षस्यापि प्रामाण्यमविसंवादात् नपुनरर्थाकारानुकारितया अतिप्रसङ्गात् । स
पुनरनुभूतस्मृतेर्यदि स्यात् प्रामाण्यं लक्षयति । सविकल्पेऽनधिगतार्थव्यवसायाभावादयुक्त
मिति चेत्; न; प्रयोजनविशेषात्, क्वचित् सदृशाकारभेदविशेषाणामुत्तरोत्तरपर्यायविशेष
साध्यार्थक्रियावाञ्छायां तथैव प्रामाण्याविरोधात् । अन्यथा कालादिभेदेन अनधिगता
र्थाधिगतेरपि प्रमाणतानभ्युपगमात् ।
प्रमाणं स्मृतिः । कुतः ? अविसंवादात् । मिथ्या अप्रमाणं स्मृतिः इति सम्बन्धः ।
कुतः ? तद् विपर्ययात् । विसंवादात् । प्रत्यक्षतदाभासवत् इति निदर्शनमत्र
- नीलादिग्राह्यदृश्याकारैः↩
- शबला↩
- पर्ययैः↩
-
अनुभवेन ।
↩ -
अनुभूतत्वस्य परिच्छेदायोगादिति भावः ।
↩ -
स्मरणेन ।
↩ -
तुलना—
↩
ननु अनुभूते जायमानमित्येतत् केन प्रतीयताम् ? न तावदनुभवेन तत्काले स्मृतेरेवासत्त्वात् । न चासती
विषयीकर्तुं शक्या । न चाविषयीकृता तत्रोपजायते इत्यधिगतिः । न चानुभवकाले अर्थस्य अनुभूतताऽस्ति,
तदा तस्यानुभूयमानत्वात् । तथा चानुभूयमाने स्मृतिरिति स्यात् । अथानुभूते स्मृतिरित्येतत् स्मृतिरेव
प्रतिपद्यते; न; अनया अतीतानुभवार्थयोरविषयीकरणे तथा प्रतीत्ययोगात् ।--प्रमेयक॰ पृ॰ ३३६ । - एव तद्↩
-
तस्मात् स एवायमिति प्रत्ययद्वयमेतत्--प्र॰ वार्तिकाल॰ पृ॰ २२ । यदतीतं न तद् ग्राह्यं यदा ग्राह्यं न
↩
तत्तथा । स्मर्यमाणेन रूपेण तदतीतं न वस्तुसत् ॥ निश्चयस्य दृढत्वाच्च प्रामाण्यमुपपत्तिमत् । प्रत्यभिज्ञान
मप्येवमक्षयोगस्त्वपार्थकः ॥--प्र॰ वार्तिकाल॰ पृ॰ ५९३ । प्र॰ वा॰ स्ववृ॰ टी पृ॰ ७८ । -
प्रत्यभिज्ञानाभावे ।
↩ - त्↩
- त्↩
- चित्राभ↩
-
बौद्धेन । अविसंवादसद्भावात् प्रमाणं ज्ञानमिष्यते । वर्तमानेऽविसंवादो न तु
↩
पूर्वविनाशिनि ॥ न स्याद्यदि तदेकत्वं किं ततोऽर्थक्रिया न सा...--प्र॰ वार्तिकाल॰ पृ॰ ५९३ । -
चित्रात्मकम् ।
↩ -
तुलना--प्रमाणमर्थसम्बन्धात् प्रत्यक्षान्वयिनी स्मृतिः ।--प्रमाणसं॰ श्लो॰ १० ।
↩